________________
षष्ठो वाद्याध्यायः
मिथ्याप्रयोगबाहुल्यमेतद्गुणविपर्ययः । इष्टस्थानानवाप्तिश्च शिरसः कम्पनं तथा ।। ६६६ ॥ वांशिकस्येति दोषाः स्युर्वर्जनीयाः प्रयत्नतः ।
इति वांशिकदोषाः
एकः स्याद्वांशिको मुख्यश्चत्वारोऽस्यानुयायिनः || ६६७ ।। वांशिकानामिति प्रायस्तज्ज्ञैर्वृन्दं निगद्यते । इति वांशिकवृन्दम्
(क) अथ वांशिकदोषानाह - मिथ्याप्रयोगेत्यादि । मिथ्याप्रयोगेऽस्थाने गमकालापः । यथोक्तं प्राक् -
• आलापो गमकालप्तिरक्षरैर्वर्जिता मता ।
सैव प्रयोगशब्देन शार्ङ्गदेवेन शब्दिता ॥ ' इति ।
३६१
तस्य बाहुल्यं प्रचुरता । एतद्गुणविपयर्य इति । एतेषामङ्गुलीसारणाभ्यासादीनां गुणानां विपर्ययोऽन्यथाभावः ॥ ६६६- ॥
इति वांशिक दोषाः
(क०) अथ वांशिकानां बृन्दमाह
46
(सु०) वांशिकदोषानाह - मिथ्येति । मिध्यारञ्जका ये प्रयोगाः पूर्वोक्त गुणव्यत्यासाः ॥ ६६६- ॥
इति वांशिकदोषाः
(संगीतरत्नाकरे ४-३६०)
-
-एकः स्यादित्यादि । ६६७ ।।
इति वांशिकवृन्दम
Scanned by Gitarth Ganga Research Institute