________________
३५८
संगीतरत्नाकरः
फूत्कारो यमलः स्तोकः कृतः स्खलित इत्यमी । फूत्कारदोषा यमलं ब्रुवते प्रतिकृतिम् || ६५७ ॥ एव मन्वर्थनामत्वान्नोच्यते लक्षणं पृथक् । बस्तुम्बकी काकी संदष्टवाव्यवस्थितः । ६५८ ॥ पञ्चेति फू-कृतेर्दोपानपरानूचिरे परे ।
यः कफोपहताद्वक्त्राद्विस्वरः स्फुरितो भवेत् ।। ६५९ ।। कपिलोsसौ तुम्बध्वानप्रायः प्रोक्तस्तु तुम्बकी । तारन्यूनतया काकस्वरः काकीति कथ्यते ॥ ६६० ॥ अल्पः संदष्टवद्भाति योऽसौ संदष्ट उच्यते । rasaara रूक्षः कथ्यते सोऽव्यवस्थितः ॥ ६६१ ॥ कण्ठस्य गुणदोषा ये पुरोक्तास्तेषु केचन । फुत्कारेsपि यथायोगं योजनीया मनीषिभिः || ६६२ ।। इति दश फूत्कारदोषाः
सौकुमार्यम् ; (; अनुरणनम्, प्रतिशब्दः ; त्रिस्थानत्वम्, स्थानत्रयत्र्याप्तिः ; श्रावकत्वम्, श्रोतॄणां सुखकरत्वम; माधुर्यम्, मधुरता; सावधानत्वम्, अवहितत्वम्; एते द्वादश फूत्कारगुणाः । तत्र एकादश शब्दगुणेषु लक्षिता: । सावधानत्वं लक्षयति-—फूत्कारैरिति ॥ ६६४-६५६ ॥
इति द्वादश फूत्कारगुणाः
(क० ) अथ फूत्कारदोषानाह - फूत्कार इत्यादि । मतान्तरेणान्यानपि दोषानाह - कपिल इत्यादि । कफोपहतात् श्लेष्मणा निवद्धात् । तुम्बध्वानप्रायः ; तुम्बइत्यनुकरणशब्दः, तुम्बध्वानः तेन प्रचुर इत्यर्थः । तुसु इत्यपि पाठो दृश्यते, सोऽप्यनुकरणशब्दः । तारन्यूनतयेति । तारस्थाने श्रुतिहीनत्वेनेत्यर्थः । संदष्टवदल्प इति । यथा लोके संदष्टमुपदंशादिकं
Scanned by Gitarth Ganga Research Institute