SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः स्निग्धता घनता रक्तिर्व्यक्तिः प्रचुरता ध्वनेः । लालित्यं कोमलत्वं च नादानुरणनं तथा ।। ६५४ ॥ त्रिस्थानत्वं श्रावकत्वं माधुर्य सावधानता । ३५७ द्वादशेति गुणाः प्रोक्ताः फूत्कारे सूरिशार्ङ्गिणा ।। ६५५ ।। तत्र शब्दगुणेष्वैकादश प्रोक्तलक्षणाः । फूत्कारैः सावधानत्वं न्यूनताधिक्यवर्जनम् || ६५६ || (सु०) ननु कथं माधुर्यदिविशेषो ज्ञातुं शक्यते तत्राह - वंशेति । वंशादीनामेकीभावेन समुदायेन यो ध्वनिः जायते, तेषु रञ्जकविशेषेण परिमाणं सुज्ञा जानन्ति । अध्वन्यानामिति । पान्थानां प्रवासे, स्त्रीनिर्जितेषु पुरुषेषु, दुःखितेषु च मन्द्रमध्यलयनादं वंशं प्रयुञ्जीत वादयेत् । द्रुतललितध्वनिं शृङ्गारे, कम्पितस्फुरितनादं द्रुतलयाश्रयं च वंशं क्रोधाभिमानयोः प्रयुञ्जीतेत्युक्तं मतङ्गाचार्येण ॥ - ६५०-६५३ ॥ (क०) अथ फूत्कारस्य गुणानाह - स्निग्धतेत्यादि । तत्र शब्दवैकादश प्रोक्तलक्षणा इति । तत्र; द्वादशगुणेषु मध्ये, एकादश सावधानताव्यतिरिक्ताः स्निग्धतादय एकादश गुणाः । शब्दगुणेष्वेवेति ; प्रकीर्णकाध्याये मृष्टादयः पञ्च गुणा उक्ताः । तत्रैव प्रोक्तलक्षणा द्रष्टव्याः । प्रोक्तलक्षणं च शरीरस्य वंशस्य च शब्दस्यैकरूपतासंपादनादिति भावः । सावधानतां लक्षयति – फूत्कारैरिति । अत्र फूत्कारशब्देन मुखरन्ध्रजनितः शव्द उच्यते ॥ ६५४-६५६ ॥ इति द्वादश फूत्कारगुणाः (सु० ) फूत्कारगुणानाह - स्निग्धतेति । स्निग्धता स्नेहः, घनता, अन्तःसारत्वम् ; रक्तिः, रञ्जकत्वम्; व्यक्तिः, प्राकट्यम्; प्रचुरता, बाहुल्यम्; लालित्यम्, लावण्यमिवाङ्गनासु वैदग्ध्यं प्रसिद्धम् ; कोमलत्वम्, Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy