________________
संगीतरत्नाकरः धातून्वृत्तित्रयं तत्वानुगतौघांश्च यान्पुरा ॥ ६४७ ॥ वाद्यान्याश्रवणीदीनि वीणायां यान्यवादिषम् । गेयं श्रुतिस्वरयाममूर्च्छनादि च यन्मतम् ।। ६४८ ।। तत्सर्व वंशवाद्येऽत्र विशेषेणोपदर्शयेत । वंशवीणाशरीराणि त्रयोऽमी स्वरहेतवः ॥ ६४९ ।। ललितो मधुरः स्निग्धस्तेषु वंशः प्रशस्यते । वंशवीणाशरीराणामेकीभावेन यो ध्वनिः ॥ ६५० ।। तत्र रक्तिविशेषस्य प्रमाणं विबुधा विदुः । अध्वन्यानां प्रवासेषु कामिनीनिर्जितेषु च ॥ ६५१ ॥ शोकार्तेषु प्रयुञ्जीत मृदुमध्यलयध्वनिम् । वंश प्रयुञ्जीत शृङ्गारे द्रुतादिललितध्वनिम् ॥ ६५२ ॥ कम्पितस्फुरितध्वानं वंशं द्रुतलयाश्रयम् । क्रोधाभिमानयोः कुर्यान्मतङ्गेनेति कीर्तितम् ॥ ६५३ ।।
(क०) वीणायामिव वंशेऽपि धात्वादयः कर्तव्या इत्याहधातूनित्यादि ॥ -६४७-६४९- ॥
(सु०) धातूनिति । धातून् , विस्तारादीन् ; वृत्तित्रयम, चित्रादिवृत्तित्रयम्, तत्त्वादीनि वाद्यानि, आश्रावणादीनि वाद्यानि च मया यानि वीणायामवादिषम् उक्तवानस्मि, यच्च गेयं श्रुतिस्वरग्राममूर्च्छनादि स्वराध्याये श्रुतं, तत्सर्व वंशवाद्ये विशेषेण दर्शयेत । वंशेति । वंशः वीणा शरीरं च अमी त्रयः स्वरानुत्पादयन्ति । ललितः, मधुरः, स्निग्ध इति । तेषु लालित्यमाधुर्यस्वभावाद्वंशः श्रेष्ठः ॥ -६४७-६४९- ॥
(क०) वंशवीणीशरीरमेलनोत्पन्नस्य ध्वने रक्तिं स्तौति-प्रमाणं विबुधा विदुरिति । वंशस्य विनियोगं दर्शयति--अध्वन्यानामित्यादिना ॥ -६५०-६५३ ॥
Scanned by Gitarth Ganga Research Institute