________________
षष्ठो वाद्याध्यायः
द्वात्रिंशांशोनपादाभ्यां यवस्य सहितं पृथक् ।। ६३९ ।। पादोन मङ्गलद्वन्द्वं मानमन्तर सप्तके । प्राग्वत्परं विश्वमूर्ती स्यात्सप्तत्रिंशदङ्गुलम् ॥ ६४० ॥ दण्डमानं तं सार्धयवपादद्वयेन च । प्रत्येकमन्तरालेषु त्वङ्गुलद्वितयं मतम् || ६४१ ।। यवस्य सार्धपादेनाभ्यधिकं पूर्ववत्परम् । दण्डो वाष्टमांशेन सपादेन समन्वितैः ॥ ६४२ ॥ चतुथत्वारिंशता स्यादङ्गुलैः संमितो मनोः । सार्घाङ्गुलद्वमितौ शिरःप्रान्तौ मतौ पृथक् || ६४३ || सार्धेन षोडशांशेन यवस्याभ्यधिकैस्त्रिभिः । पादोनैरङ्गुलैर्मानमन्तरालेषु सप्तसु ॥ ६४४ ॥ पूर्वोक्तं लक्षणं शेषमवोचत्करणाग्रणीः । खानिः सर्वेषु वंशेषु कनिष्ठामध्यपर्वणा ॥ ६४५ ॥ मूलेन संमिता कार्येत्युक्तं सोढलमूनुना । सर्वमन्यत्तु वंशानां देशीशास्त्रभुवां समम् || ६४६ ॥ एकवीरादयोऽत्रापि त्रयः प्राग्वन संपताः ।
३५५
प्रमाणान्यन्तरालानि । विश्वमूर्ताविति । सार्धयवपादद्वयाधिकसप्तत्रिंशदङ्गुलो दण्डः सार्धयवपादाधिकांशस्य ज्ञातव्यः । शिरः प्रान्तौ सार्धाङ्गुलद्वयप्रमाणौ मितौ । मनौ यवस्य सार्धषोडशाधिकपादोनत्र्यङ्गुलानि सप्तान्तरालानि । खानिः गर्भरन्ध्रं सर्ववंशेषु कनिष्टा मध्यपर्वमूलमिति । अन्यत्सर्वं लक्षणं देशीशास्त्रसंभूतानां वंशानां समानम् | एकवीरादय इति । एकवीरादयस्त्रयो वंशा अत्रापि प्राग्वद् वृत्त्यादिहीनत्वेनानभिमताः ॥ - ६१८-६४६-॥
Scanned by Gitarth Ganga Research Institute