________________
३५४
संगीतरत्नाकरः चतुर्विंशत्यगुलानां चरणन्यूनया मितिः ॥ ६३१ ॥ पृथगष्टसु रन्ध्रेषु सपादत्रियवी मितिः । प्रत्येकमन्तरालेषु साष्टमांशयवाधिकम् ।। ६३२ ।। पादोनमगुलं मानभपरं लक्ष्म पूर्ववत् । सपादयवसंयुक्ताङ्गुलपडिशतिर्भवेत् ॥ ६३३ ।। मानं नाथेन्द्रदण्डस्यान्तरालेषु तु सप्तसु । अष्टमांशाधिकं मानमङ्गलं पूर्ववत्परम् ।। ६३४ ।। यवाष्टमांशसहिता सार्धाष्टाविंशतिर्मता । अगुलानां दण्डमानं महानन्देऽन्तरेषु तु ॥ ६३५ ॥ सपादमङ्गुलं सार्धयवपादाधिकं पृथक । प्राग्वत्परं रुद्रदण्डे स्वगुलानां यवाधिका ॥ ६३६ ॥ एकत्रिंशन्मिता मानमथ सार्धयवत्रया। प्रत्येकमष्टरन्ध्री स्यादन्तरालेषु सप्तम् ॥ ६३७ ॥ सार्थामुलं पृथङ्मानं पूर्वोक्तं शेषमिष्यते । दण्डस्य मानमादित्ये स्याच्चतुस्त्रिंशदङ्गुलम् ।। ६६८ ।। यवेन च सपादेन द्वात्रिंशांशयुजाधिकम् ।
अष्टमांशन्यूनयवाधिकपादोनचतुर्विंशत्यगुलो दण्डः । रन्ध्राण्यष्टौ सपादयवत्रयमितानि । अन्तरालानि अष्टमांशयुक्तयवाधिकपादोनाङ्गुलप्रमाणानि | सपादेति । सचतुर्थाशयवाधिकषड्विंशत्यङगुलो दण्डो नाथेन्द्रस्य । परमन्यत्पूर्ववत् । यवाष्टमांशेति । यवस्याष्टमांशाधिकसार्धाष्टाविंशत्यङ्गुलो दण्डो महानन्दस्य । सार्धयवपादाधिकसपादाङ्गुलमितान्यन्तरालानि | रुद्रदण्ड इति । यवाधिकान्येकत्रिंशदगुलानि प्रमाणम् । अष्टरन्ध्राणां सार्धात्रयो यवाः । सार्धागुलप्रमाणमन्तरालम् । दण्डस्येति । सपादयवाधिकपादोनागुलद्वय
Scanned by Gitarth Ganga Research Institute