SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः अगुलैः पञ्चदशभिः सा(रस्यान्तरेषु तु ॥ ६२३ ।। सपादद्वियवी मानं पृथगन्यत्तु पूर्ववत् । सपादैः सप्तदशभिः पादन्यूनयवाधिकैः ।। ६२४ ॥ अगुलैर्दण्डमानं स्यात्पञ्चवक्त्रेऽन्तरेषु तु । षोडशांशाधिका मानं पादोनत्रियवी पृथक् ॥ ६२५ ।। शेषं तु पूर्ववद्दण्डे षण्मुखस्य तु संमितिः । युक्ता यवेन सार्धेनाष्टमांशसहितेन च ।। ६२६ ॥ एकोनविंशतिः प्रोक्ताङ्गुलानामन्तरेषु तु । यवस्य सार्धपादाभ्यां युक्तमर्धाङ्गुलं पृथक् ॥ ६२७॥ पूर्वोक्तमपरं लक्ष्म दण्डे तु स्यान्मितिर्मुनेः । अङ्गुलैरेकविंशत्या सार्धपादद्वयाधिकैः ॥ ६२८ ॥ यवस्य चाष्टमांशेन सपादेन समन्वितैः । सपादयवपादेन द्वात्रिंशांशयुतेन च ।। ६२९ ।। युक्तमन्तरमानं स्यात्पृथक्पादोनमङ्गुलम् । शेषं तु पूर्ववल्लक्ष्म ज्ञेयं वंशे वसौ पुनः ।। ६३० ॥ अष्टमांशविहीनेन यवेनाधिकया भवेत् । न्यूनयवाधिकसार्धपञ्चदशाङ्गुलो दण्डः । रन्ध्राणि सपादयवद्वयमितानि । सपादेरिति । पादन्यूनयवाधिकसपादसप्तदशाङ्गुलो दण्डः पचवक्त्रस्य । षोडशांशाधिकपादोनयवत्रयमितान्यन्तरालानि । दण्ड इति । सार्धयवाधिकाष्टमांशसहितकोनविंशत्यगुलो दण्डः षण्मुखस्य । यवस्य सार्धपादद्वयाधिकार्धागुलमितान्यन्तरालानि । दण्डे त्विति । सपादयवाष्टमांशसहितसार्धपादद्वयाधिकैकविंशत्यङ्गुलो दण्डो मुनिवंशस्य ज्ञातव्यः । सचतुर्थाशयवपादसहितद्वात्रिंशत्तमांशाधिकपादोनाङ्गुलप्रमाणान्यन्तरालानि । वंश इति । वसौ वंशे Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy