________________
३५९
षष्ठो वाद्याध्यायः अशुलीसारणाभ्यासः सुस्थानत्वं सुरागता ।। सुरागव्यक्तिमाधुर्यान्विता वेगागतागते ॥ ६६३ ॥ गीतवादनदक्षत्वं गातॄणां तानदायिता'।
कतिपयावयवशून्यमल्पं दृश्यते तथा फूत्कारोऽप्यल्पतया संदष्टवत् संदष्ट उच्यते । कण्ठस्येति । शरीरस्य ध्वनेः गुणाः मृष्टादयः, दोषा रूपादयः ॥ ६५७-६६२ ॥
इति दश फूत्कारदोषा: (सु०) फूत्कारदोषानाह-फूत्कार इति । फूत्कारे चत्वारो दोषाः ; यमल:, स्तोकः, कृशः, स्खलित इति । तत्र फूत्कारान्तरेण फूत्कृतिपूरणं प्रतिफूत्कृति: यमल इत्युच्यते । अन्ये त्रयः सार्थकनामधेयाः । स्तोकः, स्थूलोऽपि स्थानप्राप्त्यसमर्थः । कृशः, स्थानप्राप्तिसमर्थोऽपि तनीयान् । स्खलितः, मध्ये मध्ये स्थगितः । मतान्तरमाह-कम्पित इति । कम्पितादीन् पञ्च दोषान् केचिदाहुः । तेषां लक्षणमाह-~य इति । य: कफोपहताद् वक्त्रात् विकृतस्फुरणे यो ध्वनिर्जायते स कम्पित: (१); तुम्बनादसदृश: तुम्बकी (२); तारप्राप्तिरहित: काकसदृशः स्वर: काकी (३); स्वल्प: संदष्ट इव प्रतीयते स संदष्टः (४); यस्तु कदाचिदूनः कदाचिदधिको रूक्ष: स्वरः प्रतीयते सोऽव्यवस्थित: (५); कण्ठस्येति । ये गुणदोषाः प्रकीर्णकाध्याये कण्ठस्योक्ताः; तेऽपि यथासंभवं योजनीयाः ॥ ६१७-६६२ ॥
इति दश फूत्कारदोषाः
(क०) अथ वांशिकगुणानाह-अङ्गुलीसारणाभ्यास इत्यादि। वेगागतागते सुरागव्यक्तिमाधुर्यान्वितेति । गतमारोहः आगतमवरोहः,
'स्थानदायितेति सुधाकरपाठः ।
Scanned by Gitarth Ganga Research Institute