SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः ३४९ मानं खानिस्तु मातव्या कनिष्ठामध्यपर्वणा ॥ ५९३ ।। पूर्वोक्तमपरं सार्धेकचत्वारिंशताङ्गुलैः । युक्तैर्यवस्य पादोनपादद्वन्द्वेन संमितिः ।। ५९४ ॥ दण्डे पञ्चदशस्य स्यात्ततः सार्धयवतया । प्रत्येकमष्टरन्ध्री स्यादन्तरेष्वगुलद्वयम् ।। ५९५ ।। अष्टमांशोनितं मानं प्रत्येकं मनुवत्परम् । कलानिधौ सपादैः स्यात् त्रिचत्वारिंशताङ्गुलैः ॥ ५९६ ॥ यवाधिकैदण्डमानमन्तरालेपु सप्तसु । प्रत्येकमङ्गुलद्वन्द्वं सपादं पूर्ववत्परम् ॥ ५९७ ।। दण्डोऽष्टादशवंशस्याष्टाचत्वारिंशताङ्गुले: । यवान्वितैः सपादेन सपादेनाधिकैर्मितः ।। ५९८ ॥ प्रत्येकं षोडशांशोनसा(गुलयुगं मतम् । प्रमाणमन्तरालेषु परं पूर्ववदिष्यते ।। ५९९ ।। दण्डे त्वेकोनविंशस्य साधिपश्चाशदगुलम् । यवेनाभ्यधिकं मानमन्तरेषु तु सप्तसु ।। ६०० ॥ प्रत्येकं षोडशांशोनाधिकं सार्धागुलद्वयम् । प्राग्वत्परं मुरल्यां तु दण्डमानं यवाधिकम् ॥ ६०१ ।। पर्वणा मातव्या । अपरमिति । गर्भरन्ध्र कर्तव्यमित्यर्थः । पादोनयवचतुर्थाशद्वयाधिकसाधैंकचत्वारिंशदगुलो दण्डः पञ्चदशस्य वंशस्य । अष्टौ रन्ध्राणि सार्धयवत्रयमितानि । अष्टमांशन्यूनद्वयङ्गुलान्यन्तरालानि । कलानिधाविति । यवाधिकसतुर्याशद्विचत्वारिंशदगुलो दण्ड इति । सप्तदशस्य वंशस्य दण्डो यवाधिकषट्चत्वारिंशदगुलः । अष्टादशवंशस्य सचतुर्थाशपादाधिकयवसहिताष्टाचत्वारिंशदगुलो दण्डः । दण्डं त्विति । एकोनविंशस्य वंशस्य दण्डः सार्धयवाधिकपञ्चदशाङ्गुल: । मुरल्यामिति । मुरलीसंज्ञके वंशे Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy