________________
२४८
संगीतरत्नाकर:
युक्तं सार्धेन पादेनाङ्गुलमन्तरसप्तके ॥ ५८५ ॥ प्रत्येकं मानमाख्यातं खानेर्मानं तु मूलतः । षष्ठांशोनं मध्यपर्व कनिष्ठायाः प्रकीर्तितम् || ५८६ ॥ शेषं प्राग्वदथादित्ये स्यात्पञ्चत्रिंशताङ्गुलैः । यवाष्टमांशसहितैर्दण्डमानमथान्तरम् ॥ ५८७ ॥ सार्धाङ्गुलकमेकैकं खानिमानं तु कीर्तितम् । मूलतः सप्तमांशोनं कनिष्ठापर्व मध्यमम् ।। ५८८ || प्राग्वत्परं विश्वमूर्ती वंशे दण्डस्य संमिति: । यवाष्टमांशसहितैः स्यात्सप्तत्रिंशताङ्गुलैः ॥ ५८९ ॥ सार्धपादाधिकैः शीर्षमान्तौ त्र्यङ्गुलकौ पृथक् । अन्तरेष्वष्टमांशोनाधिकं सार्धाङ्गुलं पृथक् ।। ५९० ।। मानं खानेस्त्वष्टमांशन्यूनमामूलतो मतम् । मध्यपर्व कनिष्ठायाः पूर्वोक्तं शेषमिष्यते ।। ५९१ ।। दण्डमानं मनोरेकोनचत्वारिंशताङ्गुलैः । सपादैरष्टमांशेन यवस्य सहितैरपि ॥ ५९२ ॥ पादोनम गुलद्वन्द्वं पृथगन्तरसप्तके |
मांशाधिकत्रयस्त्रिंशदङ्गुलो दण्डः । सार्धपादाधिकाङ्गुलपरिमितान्यन्तरालानि । षष्ठांशन्यूनकनिष्ठामध्यपर्वमिता खानि: । अथेति । आदित्यवंशस्य दण्ड: यवाष्टमांशाधिपञ्चत्रिंशदङ्गुलः । सार्धाङ्गुलान्यन्तरालानि | विश्वमूर्ताविति । यवाष्टमांशाधिकसार्ध चतुर्थांशाधिकसप्तत्रिंशदङ्गुलो दण्डः । शीर्षप्रान्तौ सार्धपादाधिकत्र्यगुलौ । अष्टमांशांनाधिकसार्धाङ्गुलानान्यन्तरालानि । खानेस्तु मानं कनिष्ठाया मध्यपर्व । शेषं पूर्वोक्तवत् । दण्डमानमिति सपादयवाष्टमांशाधिकैकोनचत्वारिंशदङ्गुलो दण्डो मनुवंशस्य । चतुर्थाशोनद्वय गुलान्यन्तरालानि । खानिः कनिष्ठाया मध्य
Scanned by Gitarth Ganga Research Institute