________________
३४७
षष्ठो वाद्याध्यायः यवपादोनपादोनाङ्गुलषड्विशतिर्मता ॥ ५७६ ।। अगुलं यवपादेन न्यूनमन्तरसप्तके । प्रत्येकं मानमाख्यातं शेषं षण्मुखवंशवत् ।। ५७७ ।। वसौ वंशे यवार्धेन द्वात्रिंशांशयुजाधिका । स्यात्सप्तविंशतिः सार्धाङ्गुलानां दण्डसंमितिः ।। ५७८ ॥ सपादेन तु पादेन द्वात्रिंशांशयुतेन च । यवस्याभ्यधिकं मानमन्तरेष्वगुलं पृथक् ॥ ५७९ ॥ शेषं तु मुनिवद्दण्डे नाथेन्द्रस्य तु संमितिः ।। यवाष्टमांशसहितैरेकोनत्रिंशदगुलैः ।। ५८० ।। सार्धपादाधिकैरुक्ता पृथक्तु सुपिराष्टके । तारादौ यवयुक्तेनार्धागुलेन मितिभवेत् ॥ ५८१ ॥ अन्तरेषु पृथङ्मानमष्टमांशाधिकाङ्गुलम् । शेषं तु पूर्ववद्दण्डे महानन्दस्य संमितिः ।। ५८२ ।। उक्ता यवाष्टमांशोनाङ्गुलैकत्रिंशदिष्यते । सपादावन्तरालेषु प्रत्येकं मानमुच्यते ॥ ५८३ ॥ सपादमङ्गुलं शेषं पूर्वोक्तं शाङ्गिणोदितम् । अगुलानि त्रयस्त्रिंशदष्टमांशयुतानि तु ॥ ५८४ ।।
यवाष्टमांशयुक्तानि रुद्रे दण्डमितिर्भवेत् । चतुर्थाशोनपादोनषड्विंशत्यङ्गुलो दण्डः । यवचतुर्थोशन्यूनागुलपरिमितानि सप्तान्तरालानि । वसाविति । त्रिंशत्तमांशसहितयवार्धाधिकसप्तविंशत्यगुलो दण्ड: । द्वात्रिंशत्तमांशसहित सपादचतुर्थांशाधिकागुलपरिमितान्यन्तरालानि । नाथेन्द्रस्य यवाष्टमांशसहितचतुर्थाशाधिकैकोनत्रिंशदगुलो दण्डः । यवाधि. कार्धाङ्गुलमितानि ताररन्ध्रादीन्यष्टौ रन्ध्राणि । महानन्दस्य दण्डः यवाष्टमांशाधिक एकत्रिंशदगुलः । सपादाङ्गुलमितान्यन्तरालानीति | रुद्रे यवाष्ट
Scanned by Gitarth Ganga Research Institute