________________
३४६
संगीतरत्नाकरः एकवीरादिसंज्ञाभिः सर्ववंशेषु वेदितम् । अष्टमांशविहीनेन यवार्धेनाधिकैर्भवेत् ॥ ५६८ ।। अङ्गुलैः सप्तदशभिर्दण्डमानमुमापतौ । एकागुलाधिकस्तस्माद्दण्डस्त्रिपुरुषे मतः ॥ ५६९ ॥ अनयोर्वेशयोः शेष लक्ष्म स्यादेकवीरवत् । मानं स्याद्यवपादोनविहीनागुलविंशतिः ॥ ५७० ॥ चतुर्मुखस्य दण्डस्यान्तरालेवर्धमङ्गुलम् । अष्टमांशाधिकं मानं पृथगन्यत्तु पूर्ववत् ।। ५७१ ॥ सद्वात्रिंशांशपादोनद्वियवाधिकया मितः । दण्डोऽगुलैकविंशत्या पञ्चवक्त्रस्य कीर्तितः ॥ ५७२ ।। अगुलस्य त्रिभिः पादैः पादोनैरन्तराणि तु । मितानि सप्त प्रत्येकं पूर्ववल्लक्षणं परम् ॥ ५७३ ।। सार्धत्रयोविंशतिः स्यादगुलानां यवाधिका । मानं षण्मुखदण्डस्य पादोनं त्वगुलत्रयम् ॥ ५७४ ॥ पृथकशिरोन्तयोर्मानमन्तरेषु तु सप्तसु । यवपादाधिकं मानं पृथक्पादोनमगुलम् ॥ ५७५ ॥
शेषं तु पूर्ववद्वंशे मुनौ स्याद्दण्डसंमितिः । पूर्वोक्तप्रकारेण ज्ञापितम् । वंशस्थैर्नवभी रन्धैरित्यादिना अष्टमांशहीनयवार्धाधिकसप्तदशाङ्गुलो दण्ड उमापतेातव्यः । त्रिपुरुषस्य एकागुलेनाधिको दण्ड इति । मानमिति । चतुर्मुखस्य यवचतुर्थोशहीनविंशत्यङ्गुलो दण्डः । अष्टमांशाधिकागुलपरिमितान्यन्तरालानि । द्वात्रिंशत्तमांशसहितश्चतुर्थाशोनयवद्वयाधिकैकविंशत्यशलो दण्डः पञ्चवक्त्रस्य । पादोनत्र्यगुलमितान्यन्तरालानि । यवाधिकसार्धत्रयोविंशत्यगुलो दण्डः षण्मुखस्य । शिरःप्रान्तौ पादोनत्र्यालौ । यवचतुर्थांशाधिकपादोनागुलमितान्यन्तरालानि । मुनिवंशे यव
Scanned by Gitarth Ganga Research Institute