SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः चतुर्मुखादयस्तस्मादेकादश मनोहराः ॥ ५६० ॥ स्वमतेऽभ्युपगम्यन्ते वंशाः सोढलमूनुना । शार्ङ्गदेवोऽन्यमानेन वंशरूपं न्यरूपयत् ॥ ५६१ ।। तिर्यग्यवोदरैः सार्धेचतुर्भिनिस्तुषैरिह । अङ्गुलं तेन पूर्वोक्तरीत्यारभ्यैकवीरतः ।। ५६२ ॥ सन्ति द्वाविंशतिर्वशविशेषास्तेषु चक्ष्महे । वंशश्रेणीमिमामाह निःशङ्कोऽनुपमाभिधाम् ।। ५६३ ॥ एकवीरे दण्डमानं स्यात्षोडशभिरगुलैः । सार्धेन यवपादेनाभ्यधिकैस्तच्छिरोन्तयोः ॥ ५६४ ॥ सार्धागुलद्वयं मानं प्रत्येकं परिकीर्तितम् । सपादमङ्गलं जातिमुखे रन्धाष्टके पुनः ।। ५६५ ॥ पृथक्तृतीयभागोनमगुलं मानमिष्यते । अर्धाङ्गुलानि प्रत्येकमन्तरालानि सप्त च ।। ५६६ ॥ मूलतः पश्चमांशोनकनिष्ठामध्यपर्वणा । मिता खानिर्भवेत्ताररन्ध्रजातिमुखान्तरम् ।। ५६७ ।। वस्तुतस्तु चतुर्मुखादय एवैकादशोचिताः । शादेव इति । अन्येन प्रमाणेन द्वाविंशतिसंख्याकं वंशानां रूपं शाङ्गदेवो निरूपितवान् । तत्र परिभाषामाहतिर्यगिति । अन्यस्मिन् वंशलक्षणे तिर्यक् स्थितैः सार्धेश्चतुभिर्यवोदरैरङ्गुलम् । तेनाङ्गुलेन पूर्वोक्तरीत्या द्वाविंशतिर्वशा एकवीरमारभ्य वक्ष्यमाणा विशेषेण ज्ञातव्याः । इयं वंशश्रेणी अनुपमेत्युच्यते । एकवीर इति । एकवीरे वंशे सार्धद्वयचतुर्थांशाधिकषोडशाङ्गुलो दण्डः । शिरःप्रान्तौ सार्धद्वयङ्गुलौ । चतुर्थाशाङ्गुलमितं फूत्काररन्ध्रम् । अष्टौ रन्ध्राणि तृतीयांशाङ्गुलमितानि । अन्तरालानि अर्धागुलमितानि । ताररन्ध्रजातिमुखयोरन्तरमेकवीरादिसंज्ञाभिरेव Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy