________________
३४४
संगीतरनाकरः कनिष्ठामध्यपर्वोक्तमपरं रुद्रवंशकम् । षोडशांशोनितैः सार्धेः सप्तत्रिंशन्मिताङ्गुलैः ।। ५५३ ॥ मितो दण्डो विश्वमूर्तावन्तरेष्वगुलद्वयम् । षोडशांशाधिक माने प्रत्येकं मध्यपर्वणा ॥ ५५४ ।। कनिष्ठाया मिता खानिः शेषमादित्यवंशवत् । मनौ दण्डस्तु पादोनैकचत्वारिंशताङ्गुलैः ।। ५५५ ।। मितः शिरः पृथक्मान्तदेशौ सार्धाङ्गुलद्वयौ । प्रत्येकमन्तरालेषु सपादद्वयगुला मितिः ॥ ५५६ ।। विश्वमूर्तिवदन्यत्तु लक्ष्म श्रीशाङ्गिणोदितम् । वंशश्चतुर्दशैवैवं प्रोक्ताः सोढलमूनुना ।। ५५७ ।। नातः परं तु वंशानामीदृशामस्ति संभवः । तेषु रन्ध्राङ्गुलीपाप्तिन कस्यापि हि दृश्यते ।। ५५८ ॥ अतिमन्द्रध्वनित्वाच्च न ते तत्त्वविदां मताः। गतानुगतिकत्वेन त्वेकवीरादयस्त्रयः ॥ ५५९ ॥
कथिता न तु तेष्वस्ति रक्तिमाधुर्यधुर्यता । नागुलद्वयपरिमितान्यन्तरालानि । षोडशांशोनितैरिति । विश्वमूर्ती त्रयोदशाङ्गुले ; षोडशांशोनसप्तत्रिंशदगुलो दण्ड: । मनाविति । मनौ ; पादोनैकचत्वारिंशदङ्गुलो दण्डः । शिरःप्रान्तौ पृथक् सार्धाङ्गुलद्वयौ । अन्तरालेषु चतुर्थीशद्वयगुला मितिर्मानम् | अन्यतु लक्ष्म विश्वमूर्तिवत् । एवं चतुर्दशैव वंशाः । अतः परं सुषिरेषु अगुलीप्राप्त्यभावात अतिमन्द्रनादत्वाच्च वंशा न कार्याः ॥ -६३५-५५८-॥
(सु०) ननु माधुर्याद्यभावे यदि वंशो न कर्तव्य तांद्यास्त्रयो विमोक्तव्या इत्यत्राह-गतानुगतिकत्वेनेति । पूर्वप्रसिद्धिमाश्रित्यैव त्रय एकवीरादय उक्ताः ।
Scanned by Gitarth Ganga Research Institute