________________
षष्ठो वाद्याध्यायः नाथेन्द्रदण्डमानं स्यात्सपादा सप्तविंशतिः । अशुलानामन्तराणि स्युः सपादाङ्गुलानि तु ।। ५४५ ॥ प्रत्येकं मूलतः पष्ठांशोनमध्यमपर्वणा। कनिष्ठाया मिता खानिरन्यल्लंक्ष्म तु पूर्ववत् ॥ ५४६ ॥ मानं महानन्ददण्डे त्रिंशदगुलकं मितम् । पृथक्सार्धाङ्गुलानि स्युरन्तरालानि सप्त च ।। ५४७ ॥ नाथेन्द्रवत्परं लक्ष्म रुद्रे दण्डमितिः पुनः । सपादानि त्रयस्त्रिंशदगुलान्यन्तरेषु तु ।। ५४८ ॥ प्रत्येकं मानमाख्यातं पादन्यूनागुलद्वयम् । रन्ध्रेष्वष्टसु तारादिष्वष्टमांशसमन्वितम् ॥ ५४९ ।। अगुला) पृथङ्मानं खानेर्मानं तु मूलतः । सप्तपशिविहीनं स्यात्कनिष्ठापर्व मध्यमम् ।। ५५० ॥ पूर्वोक्तमन्यदादित्ये वंशे दण्डग्तु कथ्यते । अष्टमांशाधिकैः पञ्चत्रिंशता संमितोऽगुलैः ।। ५५१ ॥ अन्तरेष्वष्टमांशोनमगुलद्वितयं पृथक् ।
मानं खानो त्वष्टमांशन्यूनमामूलदेशतः ॥ ५५२ ॥ मुनौ; सार्धयवत्रयो विंशत्यङ्गुलो दण्डः । पृथगगुलमितान्यन्तरालानि । वसौ वंशे ; चतुर्यवाधिकपञ्चविंशत्यगुलो दण्ड: । अन्तरालानि सप्त यवानि । नाथेन्द्रे वंशे ; सचतुथांशसप्तविंशत्यङ्गुलो दण्डः । सपादाङ्गुलमितान्यन्तरालानि । षष्टांशोनकनिष्ठामध्यपर्वमूलमिता खानिः गर्भरन्ध्रम् | महानन्दे वंशे; त्रिंशदगुलो दण्डः । अन्तरालानि पृथक् सार्धागुलानि । परं लक्ष्म नाथेन्द्रवत् । रुद्रवंशे ; दण्डः सपादत्रयस्त्रिंशदगुल: । अष्टमांशोनाङ्गुलद्वयपरिमितान्यन्तरालानि । आदित्यवंशे; अष्टमांशाधिकपश्चत्रिंशदगुलो दण्डः। अष्टमांशो
Scanned by Gitarth Ganga Research Institute