________________
३४०
संगीतरत्नाकरः अगुलं निबबन्धासौ सिद्धं गणितशास्त्रतः ॥ ५२५ ॥ न ह्यङ्गुलं पञ्चयवं दृश्यते शास्त्रलोकयोः । अगुलं निस्तुषैः षडभिस्तिर्यग्भिः स्याद्यवोदरैः ॥ ५२६ ॥ दक्षिणस्य करस्य स्यात्खानिमाने कनिष्ठिका । न स्थूला न कृशात्यन्तं गृह्यते किंतु मध्यमा ॥ ५२७ ।। मूलशब्दोऽन्वयं याति मध्यमेनात्र पर्वणा । समा सर्वत्र खानिः स्याद्विषमः स्वरभङ्गकृत् ।। ५२८ ।। चतुर्दशाङ्गुलो दण्ड एकवीरस्य दृश्यते । तच्छिरः पान्तयोर्मानमगुलद्वितयं पृथक् ।। ५२९ ॥
द्वियवमितानि । युक्तैरिति । पञ्चदशाङ्गुले वंशे ; सपादयवाष्टमांशसहितयवपादाधिकद्विचत्वारिंशदगुलो दण्डः; शिरः प्रान्तौ त्र्यमुलौ ; अन्तरालानि सप्त अर्धयवाधिकागुलद्वयमितानि । अन्यलक्षणं मनुवत् चतुर्दशाङ्गुलवंशवत् । सप्तदशाङ्गेले वंशे ; दण्डः द्वात्रिंशांशयुक्तसापादाधिकपादोनषट्चत्वारिंशदगुल: ; अगुलद्वयमितान्यन्तरालानि ; अन्यत् षोडशाङ्गुलकलानिधिवत् । अपीति । अष्टादशसु वंशेषु शाह्मदेवः पञ्चयवं मानमपि वक्तुं प्रगल्भते । अपिशब्दो गर्हायाम् ; “अपिः पदार्थसंभावनान्ववसर्गगर्दासमुच्चयेषु " (पाणिनिसूत्रम् १-४-९६) इत्युक्तत्वात् । तस्मात् प्रगल्भत इत्यर्थः । ततो लक्षणमन्यथा प्रत्यपादयत् प्रतिपादयति स्म ॥ ५१५-५२४-॥
(सु०) अशलमिति । अङ्गुलं गणितप्रसिद्धमेव । नहि पञ्चयवमङ्गुलं कचिद् दृश्यते । गणितप्रसिद्धमेवाङ्गुलमुच्यते । अगुलमिति । निस्तुषैः तुषशून्यैः तिर्यस्थितैः षड्भिर्यवोदरमगुलम् । खानिमाने खानिप्रमाणे अस्थूला अकृशा च, मूलशब्दो दक्षिणहस्तस्य कनिष्ठिकया मध्यमपर्वणा संबन्धं याति । खानिः सर्वत्र समैव कर्तव्या । विषमा चेत् स्वरभङ्गं स्वरविकारं करोति । चतुर्दशेति । एकवीरे वंशे; चतुर्दशाक्गुलो दण्ड: ; शिरःप्रान्ती
Scanned by Gitarth Ganga Research Institute