________________
३३९
षष्ठी वाद्याध्यायः विश्वमूतौ दण्दमानं तारादौ सुपिराष्टके । प्रत्येकं वियत्री सार्धा मानमन्तरसप्तके ॥ ५१६ ॥ अङ्गुलद्वितयं मानं पृथगादित्यवत्परम् । युक्तैर्यवेन पादेन द्वाचत्वारिंशदगुलैः ।। ५१७ ॥ यवस्य चाटपांशेन सपादेनाधिकैर्मतः ।। दण्ड: श्रीशाङ्गिदेवोक्तो वंशे पञ्चदशाङ्गुले ॥ ५१८ ॥ अङ्गुलत्रितयं मानं शिरःप्रान्ते प्रदेशयोः । प्रत्येकमन्तरालेषु सप्तस्वर्धयवाधिकम् ॥ ५१९ ॥ अगुलद्वितयं मानं मनुवल्लक्षणं परम् । यवस्य सार्धपादेन द्वात्रिंशांशयवाधिकः ॥ ५२० ॥ षट्चत्वारिंशता पादन्यूनः स्यादगुलैर्मितः । दण्डः सप्तदशे वंशेऽन्तरेषु त्वगुलद्वयम् ॥ ५२१ ॥ पृथक्सद्वियवं मानं स्यात्कलानिधिवत्परम् । एवं प्रसिद्धलक्ष्माणो रागादिव्यक्तिहेतवः ।। ५२२ ॥ त्रयोदशादयो वंशा निपिध्यन्ते मुधा परैः । अपि पश्चयवं मानं वंशेष्वष्टादशस्वपि ॥ ५२३ ॥ व्यक्तं प्रगल्भते वक्तुं सूरिः श्रीकरणाग्रणीः । तस्माद्देश्यनुसारेण लक्ष्यलक्षणतत्ववित् ॥ ५२४ ॥ शार्ङ्गदेवोऽन्यथा वंशस्वरूपं प्रत्यपादयत् ।
(क०) अथ देश्यनुसारेण स्वाभिमतं वंशलक्षणं वक्तुमाह"तस्माद्देश्यनुसारेण" इत्यादिना "प्रयः प्राग्वन्न संमता:" इत्यन्तेन । मूलशब्दोऽन्वयं याति मध्यमेनात्र पर्वणा इति । कनिष्ठमध्यमपर्वमूलमित्यर्थः । व्याख्यातप्रायमन्यत् ॥ -५२४-६४६- ॥
Scanned by Gitarth Ganga Research Institute