________________
३३८
संगीतरनाकरः सार्धपश्चयवे माने लक्ष्म स्यादव्यवस्थितम् । त्रयोदशादयो ये च त्रयो वंशा निराकृताः ॥ ५१० ॥ न तत्रा युक्तिलेशोऽस्ति येनं तुष्यन्ति सूरयः । अल्पान्तरत्वमुक्तं यत्तदसारतरं पुनः ।। ५११॥ वंशान्तरान्तरैम्तुल्यमन्तरं तेषु दृश्यते । द्वादशार्धस्वरन्यूनो यथैकादशवंशतः ॥ ५१२ ॥ मुद्रितः स्वररन्ध्रः स्यात्तथा तस्मात्त्रयोदश । एवं चतुर्दशात्पश्चदशो वंशात्तु पोडशात् ॥ ५१३ ॥ वंशः सप्तदशो लक्ष्मापसिद्धमिति चेन्न तत् । वक्तुं तदुक्तरीत्या हि शक्यं तेष्वपि लक्षणम् ॥ ५१४ ॥ त्रयोदशाङ्गुलो वंशो विश्वमूर्तिरुदाहृतः।। अधिकं यवपादेन स्याचत्वारिंशदगुलम् ॥ ५१५ ।।
(सु०) देश्यभिज्ञान्प्रति किंचिद्वदाम इत्याह-मान इति । पञ्चयवाशुलमाने सप्ताङ्गुलादिवशेषु त्रियवाधिकमानं कस्मात् दृश्यते ? चतुर्दशाङ्गुलादिवंशेषु पूर्वोक्तमानात् क्रमेण सप्ताष्ट नव च यवाधिका दृश्यन्ते । सार्धपञ्चयाङ्गुले कल्प्यमाने लक्षणमव्यवस्थं स्यात् । त्रयोदशाङ्गुलादिवंशत्रयनिराकरणे च न कारणं पश्यामः । यत्तु स्वल्पान्तरत्वं कारणमुक्तम् , तत्तु अन्येष्वपि तुल्यम् । द्वादश इति । एकादशाङ्गुलाद्वंशात् द्वादशाङ्गुलो वंश: यथा अर्धस्वरेण हीन: तथा द्वादशाङ्गुलाः, त्रयोदशाङ्गुलापि भविष्यति । एवं पञ्चदशसप्तदशाङ्गुलावपि सभवत: लक्षणशास्त्रेवनुक्तत्वादप्रसिद्धमिति चेत्, तन्न ; हि यस्मात् कारणात् पूर्वोक्तरीत्या लक्षणं कल्पयितुं शक्यते ॥ ५०८-५१४ ॥
__(मु०) तदेव कल्पितं लक्षणमाह-त्रयोदशेति । त्रयोदशाङ्गुलो विश्वमूर्तिः, तस्य यवपादाधिकचत्वारिंशदगुलो दण्डः; तारादीन्यष्टौ च्छिद्राणि सात्रिययवमितानि, त्रयाणां यवानां समाहारस्त्रियवीति । अन्तरालानि
Scanned by Gitarth Ganga Research Institute