________________
षष्ठो वाद्याध्यायः किंचिच्छास्त्रकृतां प्राचामाचार्याणां महात्मनाम् । उपालम्भोऽपि दोपाय किं तया कथयापि नः ।। ५०७ ।। तदास्तामुच्यते किंतु केचिद्देशीविदः प्रति । माने पश्चयवे कस्माद् दृश्यतेऽत्र यवोऽधिकः ॥ ५०८ ॥ सप्ताइगुलादिवंशेषु कथं चोर्ध्वं चतुदेशात् ।
पूर्वमानाधिकाः सन्ति ते सप्ताष्ट नवा यवाः ।। ५०९ ॥ भाषादेरिति । अत्र रागशब्देन ग्रामरागोपरागा उच्यन्ते ; भाषाशब्देन भाषाविभाषान्तरभाषा उच्यन्ते ; आदिग्रहणेन रागानभाषाङ्गक्रियाङ्गो पानानि गृह्यन्ते, तेषाम् , कथा सुदूरोत्सारितेति । मूर्च्छनादयो न भवन्त्येवेत्यर्थः ।। -५०३-५०७ ॥
(सु०) यदिदमिति । यदिदं शास्त्रोकं, यच्च देशीप्रसिद्धं, ते द्वे अपि लक्ष्मणी कलाभिज्ञानां मनांसि रक्षयितुं न समर्थः । अगुष्ठेति । अगुलस्य अगुष्ठपर्वदीर्पण मानेन अष्टादशसु वंशेषु कृतेषु मुखे फूत्काररन्ध्रस्थिते सति कस्य वादकस्य करौ स्वररन्ध्र प्राप्नुतः, वितताकृतेरपि अतिदीर्घस्यापीत्यर्थः । अन्तरमिति | स्वरच्छिद्राणामर्धाङ्गुलप्रमाणं यदन्तरालमुक्तं शास्त्रे तेन स्वराभिव्यक्तिर्न दृश्यते । य इति । ये षड्जर्षभादयः स्वराः पूर्वमुक्ताः । अनेन मानेन वंशे क्रियमाणे क्रमेणोत्पत्तिः तेषां दृश्यते । मुर्छनारागादीनामुत्पत्तिस्तु सुदूरं निरस्त इति पूर्वाचार्यान् प्रति उपालम्भो न युक्तः ॥ -५०२-५०७ ॥
(क०) शास्त्रोक्तानि कानिचिद्वंशलक्षणान्यनुभाप्य, तेषु लक्ष्य विरोध दर्शयित्वा, तथा शास्त्रे निराकृतानामपि त्रयोदशाङ्गुलादीनां वंशानां लक्ष्ये व्यवहारं दर्शयित्वा पुरातनानां मतं दूषयति--तदास्तामुच्यते किं लित्यादिना मूरिः श्रीकरणाग्रणीरित्यन्तेन ॥ ५०८-६२३- ।। 'ठोकोऽयं मूले, "ते द्वे” इत्यस्यानन्तरं व्याख्याद्वयानुसारेण योजनीयः ।
अष्टपर्पदैर्घ्यं यदलं तत्समीरितम् । तेन मानेन वंशेषु कृतेष्वष्टादशादिषु ॥
Scanned by Gitarth Ganga Research Institute