SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ संगीतरमाकरः अन्तरेषु पृथङ्मानं वेधमन्यत्कलानिधेः । नात्र त्रयोदशो वंशो न वा पञ्चदशाङ्गुलः ॥ ५००॥ इष्यतेऽल्पान्तरत्वेन न च सप्तदशाङ्गुलः ।। एवं पञ्चदशैवैते वंशास्तेषामिमे मताः ॥ ५०१॥ माधुर्यरक्तिसंयुक्ता रागाभिव्यक्तिहेतवः । यदिदं लक्ष्म शास्त्रोक्तं यच्च देशीगतं मतम् ॥ ५०२ ॥ ते द्वे रचयितुं शक्ते न मनांसि कलाविदाम् । वक्त्रे फूत्काररन्ध्रस्थे कस्य वा वितताकृतेः ॥ ५०३ ।। स्वररन्ध्राण्याप्नुयातामपि दीर्घतरौ करौ । अन्तरं स्वररन्ध्राणामुक्तम(गुलं च यत् ॥ ५०४ ॥ शास्त्रेण तेन कस्यापि स्वरस्य व्यक्तिरीरिता । ये पूर्वोक्तक्रमाः सप्त स्वराः सरिंगमादयः ॥ ५०५॥ मानेत्र दृश्यते तेषां नासो क्रमपरिक्रमः । मूर्च्छनारागभाषादेः सुदूरोत्सारिता कथा ॥ ५०६ ॥ यशलान्यन्तरालानि । त्रयोदशाङ्गुलादयो वंशा: अन्येभ्यः स्वल्पान्तरत्वात् नेष्यते नाभीष्टा इत्यर्थः । तेषामाचार्याणामेवमुक्ताः । पञ्चदश वंशाः माधुर्यादियुक्ता रागाभिव्यक्तेः कारणमिति ॥ ४९६-५०१- ॥ . (क०) 'यदिदं लक्ष्म ' इत्यादिना पूर्वोक्तं लक्षणद्वयमरक्षकमित्युक्त्वा अङ्गुष्ठपर्वदाङ्गुलमानेन यल्लक्षणं तत्प्रशंसति-वक्त्रे फूत्काररन्ध्रस्थ इत्यादि । वितताकृतेः कस्य वा वांशिकस्य दीर्घतरावपि करौ स्वररन्ध्राण्याप्नुयातामिति काका नैवाप्नुयातामिति गम्यते । फूत्कारध्वनिनैव तस्यापि पारवश्यं भवतीति भावः । पुनरपि शास्त्रोक्तमुपालभतेअन्तरं स्वररन्ध्राणामित्यादिना तदास्तामित्यन्तेन । मूर्च्छनाराग Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy