SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः यवाधिकं सपादेनाष्टमांशेन यवस्य च ॥ ४९२ ॥ सहितं मानमाख्यातं पादन्यूनाङ्गुलत्रयैः । शिरःमान्तौ पृथग्जातिमुखे स्यान्मानमगुलम् ।। ४९३ ॥ षोडशांशोनपादेनाधिकं रन्ध्राष्टके पुनः । यवत्रयं पृथक्सार्धमन्तरेषु च सप्तसु ॥ ४९४ ।। प्रत्येकं यवपादेन न्यून स्यादङ्गुलद्वयम् । मानं लक्षणमन्यत्तु भेदादादित्यवंशवत् ॥ ४९५ ॥ यवस्य साधपादाभ्यां द्वात्रिंशांशे नवाधिकैः । चतुश्चत्वारिंशता स्यात्पादोनैरङगलैर्मितः ॥ ४९६॥ दण्डः कलानिधौ वंशे शिरोन्तौ व्यङ्गुलौ पृथक् । अन्तरेष्वशुलद्वन्द्वं सपादयवसंयुतम् ॥ ४९७ ।। प्रत्येकं मानमाख्यातं लक्ष्मान्यन्मनुवन्मतम् ।। यवस्याष्टमभागेन सपादेन समन्वितैः ।। ४९८ ॥ अष्टाचत्वारिंशता स्यात्पादोनैः संमितोऽगुलैः । अष्टादशाङ्गुले दण्डः सार्धं त्वगुलयोर्द्वयम् ।। ४९९ ॥ सपादाष्टमांशसहितयवाधिकः सचतुर्थाशैकोनचत्वारिंशदशल: ; मस्तकप्रान्तौ प्रत्येकं पादोनागुलत्रयपरिमितौ; जातिमुखे फूत्काररन्ध्रे सषोडशांशचतुर्थोशाधिकमगुलं मानम् । अन्यान्यष्टरन्ध्राणि सार्धयवत्रयमितानि सप्तान्तरालानि यवचतुर्थाशोनाङ्गुलद्वयमितानीति ॥ -४९०-४९५ ॥ (सु०) यवस्येति । सार्धयवपादाभ्यां द्वात्रिंशांशविभागेन चाधिकपादोनचतुश्चत्वारिंशदगुल: कलानिधेर्दण्डः; मस्तकप्रान्तावङ्गुलत्रयमितौ ; सचतुथोशयवाधिकद्वयशुलप्रमाणान्यन्तरालानीति । यवस्येति । अष्टादशाङ्गुलवंशस्य दण्डः सपादयवाष्टमभागाधिकपादोनाष्टाचत्वारिंशदगुलः; सार्ध Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy