________________
षष्ठो वाद्याध्यायः
मानं जातिमुखाख्ये स्यात्फूत्कारसुषिरेऽङ्गुलम् । ताररन्ध्रं ततोऽधस्तादगुलान्तरितं मतम् ।। ५३० ॥ षोडशांशाधिकं तस्य मानमर्धाङ्गुलं विदुः । तदधोsar तावन्ति सप्त रन्ध्राणि कल्पयेत् ।। ५३१ ॥ तेष्वष्टास्तूर्ध्वरन्ध्राणि सप्त स्युः स्वरसिद्धये । अन्तिमं वायुरन्धं स्यादन्तरालानि सप्त च ।। ५३२ ॥ पृथगगुलान्येषां गर्भरन्धं तु संमितम् । मूलतः पञ्चमांशोनकनिष्ठामध्यपर्वणा ॥ ५३३ ॥ खानिस्तदुच्यते देश्यां पूर्वोक्ताखिस्वरादयः । त्रयोदशापरे ताररन्ध्रजातिमुखान्तरे ।। ५३४ ॥ एकैकाङ्गुलवृद्धया स्युराचतुर्दशवंशतः । उमापतौ दण्डमानं भवेत्पञ्चदशाङ्गुलम् || ५३५ ।।
३४१
द्वयङ्गुलौ ; जातिमुखसंज्ञकं फूत्काररन्ध्रमङगुलप्रमाणम् । ततो जातिमुखादधस्ताद्वर्तमानं रन्ध्रं ताररन्ध्रजमित्युच्यते । तत्र अङ्गुलान्तरितं षोडशाधिकार्धाङ्गुलमितं कार्यम् । अन्यान्यपि सप्त रन्ध्राणि तावन्ति कल्पयेदिति । तेष्विति । तेषु ; ताररन्ध्रसहितेषु अष्टसु रन्ध्रेषु सप्तस्वरस्थितये अन्तिमं वायुरन्ध्रमेव | अर्धाङ्गुलप्रमाणानि अन्तरालानि । गर्भरन्ध्रं तु पञ्चमांशोनमूलत: कनिष्टामध्यपर्वमूलमितम् । तद्गर्भरन्धं तु लोके खानीत्युच्यते । त्रिस्वरादयः पूर्वमुक्ताः । अपरे त्रयोदश; ताररन्ध्रजातिमुखान्तरे फूत्काररन्ध्रमध्ये एकैकाङ्गुलवृद्ध्या आचतुर्दशवंशत: चतुर्दशाङ्गुलपर्यन्तं ज्ञातव्याः ॥ -५२५–५३४- ॥
(सु०) उमापताविति । उमापतौ वंशे; पञ्चदशाङ्गुलं दण्डमान भवेत् । अन्यत्तु लक्ष्म एकवीरवत् । त्रिपुरुषे वंशे पुन: ; वार्धसहितः सार्ध
Scanned by Gitarth Ganga Research Institute