________________
षष्ठो वाद्याध्यायः सार्धाङ्गुलौ शिरःपान्तौ पृथग्जातिमुखेऽङ्गुलम् । मानं तारादिरन्ध्राणि प्रत्येकं त्रियवानि तु ।। ४६७ ॥ त्रियवान्यन्तरालानि पृथक् स्थानेषु मूलतः । पञ्चमांशोनितं मानं कनिष्ठापर्वमध्यतः ।। ४६८ ॥ उमापतेस्तु वंशस्य दण्डः पञ्चदशाङ्गुलः । पादोनेन यवद्वन्वेनाधिकोऽस्यान्तरेषु तु ॥ ४६९ ॥ सपादत्रियवं मानं पृथगन्यत्तु पूर्ववत् । अगुलैः सप्तदशभिर्यवयुग्माधिकैर्मतः ।। ४७० ॥ दण्डत्रिपुरुषे वंशे पृथगन्तरसप्तके ।
यवोनमगुलं मानमपरं लक्ष्म पूर्ववत् ।। ४७१ ।। चतुर्दशादिवशेषु मनुकलानिध्यष्टादशाङ्गुलेषु त्रिषु वंशेषु, इदम् ; अङ्गुलम् ; सार्धपश्चयवमिति पूर्ववंशेभ्यो मानभेदकथनम् । शिरःप्रान्तौ ; मूलाग्रभागादित्यर्थः । जातिमुखं नाम शूत्काररन्ध्रम् ॥ -४६४-४८३- ॥
(सु०) मतान्तरमाह-केचिदिति । देशीविदः, देशीज्ञाः केचित् एकवीरप्रमुखान् अमन् वंशान् अन्येन प्रमाणेन आहुरिति । चतुर्दशवंशात् पूर्वेषु वंशेषु पञ्चयवमङ्गुलम् । चतुर्दशवंशमारभ्य अन्येषु वंशेषु सार्धपश्चयवमङ्गुलमिति | एकवीरे नवच्छिद्रे वंशे दण्डश्चतुर्दशाङ्गुलः, मस्तकप्रदेश: प्रान्तश्च सार्धाङगुल: । जातिमुखे फूत्काररन्ध्रे अगुलप्रमाणम् ; तारादिच्छिद्राणि यवत्रयप्रमाणानि; रन्ध्रान्तरालानि पृथक् स्थानेषु मूलत: पञ्चमांशन्यून कनिष्ठाया मध्यपर्वमानम् ॥ -४६४-४६८ ॥
(सु०) उमापतेरिति । उमापतिसंज्ञकस्य वंशस्य पञ्चदशाङ्गुलो दण्ड: पादोनयवद्वयेनाधिकः, अस्य वंशस्य अन्तरालेषु सपादयवत्रयं पृथक् प्रमाणम् । अन्यत्पूर्ववत् । त्रिपुरुषे वंशे, पञ्चयवाधिकं सप्तदशाङ्गुलो
Scanned by Gitarth Ganga Research Institute