________________
संगीतरनाकरः चतुर्दशाङ्गुलो वंशत्रिस्थानस्वरसाधकः । वर्णालंकारधात्वादिवायसंवादनक्षमः ॥ ४६३ ॥ एवं वंशा नवैवेति युक्तायुक्तविदो विदुः । केचिदेशीविदो वंशानेकवीरादिकानमून ॥ ४६४ ॥ मानान्तरेणाभिदधुस्तेषां मतमिदं ब्रुवे । पाक् चतुर्दशवंशात्तेऽगुलं पञ्चयवं जगुः ॥ ४६५ ॥ चतुर्दशादिवशेषु सार्धपश्चयवं त्विदम् ।
चतुर्दशाङ्गुलं दण्डमेकवीरे प्रचक्षते ॥ ४६६ ॥ अभ्युपगतवान् । तामेव दर्शयति- षट्सप्लेत्यादिना । सर्ववंशमय इति । उक्ताष्टविधवंशरूप इत्यर्थः । अत्र त्रिस्थानस्वरसाधक इति हेतुगर्भितं विशेषणम् ॥ ४६०-४६३- ॥
(सु०) मतान्तरेण स्वरोत्पत्तौ वंशव्यवस्थामाह-अत्रेति । कीर्तिघरनामा आचार्यः, अन्यां व्यवस्थामङ्गीकृतवान् । षडङ्गुला: सप्ताङ्गुलाः अष्टाङ्गुलाश्च वंशाः तारस्वरान् कुर्वन्ति । नवाङ्गुला दशाङ्गुलाः एकादशाङ्गुलाश्च मध्यस्वरान् ; द्वादशाङगुलत्रयोदशाङगुलौ द्वौ वंशौ मन्द्रस्वरोत्पादको । यस्तु पुनः सर्वेषां वंशानामन्तर्भावात् सर्ववंशमयः चतुर्दशाङ्गुलो वंश: समन्द्रमध्यतारानपि स्वरान् उत्पादयति । वर्णालंकारादीनां विस्तारादिधातूनां ततादिवाद्यानां च प्रकाशने समर्थः । एवं नवैव वंशा इति ॥ ४६०-४६३- ॥
(क०) अथ केषांचिद्देशीविदा मतेनैतानेवैकवीरादिकान् वंशान् मानान्तरेण भिन्नलक्षणान् दर्शयितुमाह-केचिद्देशीविद इत्यादि । ते; देशीविदः । चतुर्दशात् मनुसंज्ञकात् वंशात् प्राक् प्राक्तनेषु आदित्यायेकवीरान्तेषु, अमुलं पञ्चयवं जगुरिति ; पञ्चयवमितमङ्गुलप्रमाणमाहुरित्यर्थः । अत्र चतुर्दशादिति व्यब्लोपे पञ्चमी । अत एव चतुर्दशादिवंशेप्विमुच्यते ।
Scanned by Gitarth Ganga Research Institute