________________
षष्ठो वाद्याध्यायः
३२९ रन्धेऽखिलेऽङ्गुलीमुक्ते मुक्ता स्यान्मुक्तशब्दकृत् ।। ४५८ ॥
इति मुक्ता अर्धमुक्तार्षमुक्तेः स्याद् धृतशब्दविधायिनी ।
__ इत्यर्धमुक्ता समन्तात्सर्वरन्ध्राणि पिधायाङ्गुलिभिर्यदा ।। ४५९ ॥ वंशं पूरयते तज्ज्ञैस्तदा ज्ञेया निपीडिता ।
इति निपीडिता अत्र कीर्तिधरस्त्वन्यां व्यवस्थामभ्युपागमत् ॥ ४६० ॥ षट्सप्ताष्टाङ्गुला वंशास्तारस्वरविधायकाः । मध्यस्वरा नवदशैकादशाङ्गुलकास्त्रयः ।। ४६१ ॥ अगुलैयों द्वादशभिः स्यास्त्रयोदशभिश्च यः।
हेतू मन्द्रस्वराणां तौ सर्ववंशमयः पुनः ॥ ४६२ ।। अगुल्यमापेन रन्ध्रारमुक्तेः हेतोरित्यर्थः । धृतशब्दविधायिनीति । उत्पन्न शब्दं धारयन्तीत्यर्थः ॥ ४५६-४५९- ॥
(सु०) वंशगति विभजते-कम्पितेति । कम्पितादिभेदेन वंशवादनप्रकारः पञ्चविधः । एतेषां क्रमालक्षणमाह-अधरस्थस्येति । अधरस्थितस्य वंशस्य कम्पने क्रियमाणे कम्पिता गतिः ; अङ्गुलिचालनात् वलिता, तस्याः संचारिवर्णनिष्पत्ति: प्रयोजनम् । रन्ध्रात् सर्वाङ्गुलिमोचने मुक्ता ; अर्धमोचने अर्धमुक्ता; सर्वरन्ध्राणि सर्वतोऽङ्गुलिभिः आच्छाद्य वंशपूरणे निपीडिता ॥ ४९६-४५९-॥
(क०) मतान्तरेण वंशव्यास्थामाह-अत्र कीर्तिधर इत्यादि । अत्र वंशविषये, अन्यां व्यवस्था ; वक्ष्यमाणस्थानत्रयव्यवस्थाम् , अभ्युपागमत्
42
Scanned by Gitarth Ganga Research Institute