________________
३२८
संगीतरत्नाकरः तीव्रातीव्रतया वायोः शीघ्रमन्थरभावतः ॥ ४५४ ॥ पूरणापूरणाभ्यां चोपचयापचयाद् ध्वनेः । कुर्वन्त्येकत्र रन्धेऽपि तज्ज्ञा नानास्वरोदयम् ॥ ४५५ ॥ कम्पिता वलिता मुक्तार्धमुक्ता च निपीडिता । इति वंशे गतिः प्रोक्ता शार्ङ्गदेवेन पञ्चधा ॥ ४५६ ॥ अधरस्थस्य वंशस्य कम्पनात्कम्पिता मता। वर्णालंकारनिष्पत्तिः प्रयोगेऽस्याः प्रयोजनम् ॥ ४५७ ।।
इति कम्पिता भवेत्संचारिनिष्पत्तौ वलिताङ्गुलिचालनम् ।
इति वलिता
वादकेन कृतात् फूत्कारात् मध्यसप्तके स्वरा: वीणास्वरवत् शरीरोत्पन्नस्वरवच्च जायन्ते । मुखसंयोगेन संकटे छिद्रे तारस्थानस्वरोत्पत्ति: । अयं वादनप्रकारो टीपा इत्युच्यते । तया टीपया यद् रन्ध्र वाद्यते तत्स्वरो द्विगुणो भवेत् द्वैगुण्यं प्राप्नोति । रन्ध्रस्य मुखसंयोगेन पूरणेन सविप्रकर्ष दूरत्वे क्रियमाणे स्वराणां मन्द्रत्वं भवतीति ॥ ४४८-४५३- ॥
(क०) एवं फूत्कारप्रयत्नभेदेन स्थानत्रयस्य निप्पत्तिमुक्त्वा ततोऽपि कुशलैरेकस्मिन्नेव रन्धे नानास्वरोदयः क्रियत इत्याह-तीव्रातीव्रतयेत्यादिना ॥ -४५४, ४५५ ॥
(सु०) तीब्रेति । वायोः तीव्रातीवत्वेन शीघ्रत्वेन स्थिरत्वेन पूरणत्वेन अपूरणत्वेन च ध्वनेः पुष्टापुष्टत्वेन निर्गमाय एकस्मिन्नेव छिद्रे तज्ज्ञा: वादने प्रवीणा: अनेकस्वरानुत्पादयन्ति ।। -४५४, ४५५ ।।
(क०) अथ वंशे पञ्च गतीर्दर्शयति:-कम्पितेत्यादि । अर्धमुक्तेरिति।
Scanned by Gitarth Ganga Research Institute