________________
षष्ठो वाद्याध्यायः
स्थानत्रयस्य 'निष्पत्तिर्नैवास्मिनन्यथा जगुः । सुशिक्षितेन रचितात्फूत्कारान्मध्यसप्तके || ४५१ ॥ जायन्ते वैणशारीरस्वरसंवादिनः स्वराः । तारस्था मुखसंयोगसंकटे मुखरन्धके ॥ ४५२ ॥ तं वादनप्रकारं च टीपामाचक्षते जनाः । तया यद्वायते रन्धे तत्स्वरो द्विगुणो भवेत् ।। ४५३ ॥ रन्ध्रस्य मुखसंयोगविप्रकर्षात्तु मन्द्रगाः ।
३२७
;
स्थानत्रयस्येति । अस्मिन् पक्षे, स्थानत्रयस्य ; मन्द्रमध्यताराख्यस्य निष्पत्तिनैवेति । अन्यथा प्रकारान्तरेण जगुः । अन्य आचार्या इति शेषः । सुशिक्षितेनेति न सर्वसाधारणमित्यर्थः । तेन रचितात्फूत्कारादिति । मुखरन्ध्रयोः संयोगविशेषकृतादित्यर्थः । मध्यसप्तके वैणशारीरस्वरसंवादिन इति । वंशस्य मध्यसप्तकस्थिताः स्वरा वैणैः शारीरैश्च स्वैरैरेकतारूपा इत्यर्थः । मुखसंयोगसंकटे मुखरन्ध्रक इति । अतिसंनिकृष्टत्वेनेत्यर्थः । तत्स्वरो द्विगुणो भवेदिति फूत्कारेण प्रयत्नविशेष उक्तः ; तदा तारस्थाः स्वरा भवन्ति । मुखसंयोगविप्रकर्षादिति प्रयत्नशैथिल्यमुक्तम् ; तदा मन्द्रगाः स्वरा भवन्ति ॥ ४४८ - ४५३ ॥
(सु० ) मतान्तरेणान्यथा स्वरोत्पत्तिमाह--अन्यथेति । करद्वयमर्धचन्द्रनागफणवत् स्थापनीयम् । वामकरः अर्धचन्द्रवद् विमुखः । दक्षिणकरः नागफणवत् संमुखः । तत्र वामहस्तमुक्तया अनामिकया षड्ज उत्पद्यते ; मध्यमया ऋषभः; तर्जन्या गान्धार: ; दक्षिणहस्तस्य कनिष्ठया मध्यमः ; अनामि कया पञ्चमः ; मध्यमया धैवत:; तर्जन्या निषादः ; ते च आचार्या अस्मिन् स्वरोत्पत्तिप्रकारे स्थानत्रयस्य उत्पत्तिमन्यथा माहुः । सुशिक्षितेन 1 निष्पत्तिस्ते चास्मिनन्यथा जगुः इति सुधाकरपाठः.
Scanned by Gitarth Ganga Research Institute