________________
३२६
संगीतरत्नाकरः अर्धेन्दुनागफणवद्वेशे स्थाप्यं करद्वयम् । वामस्यानामिकागुल्या षड्जो मध्यमया पुनः ॥ ४४८ ॥ ऋषभः स्यात्पदेशिन्या गान्धार इति वामतः ।। त्रयः स्वराः प्रजायन्ते चत्वारो दक्षिणात्करात् ॥ ४४९ ॥ कनिष्ठया मध्यमः स्यात्पञ्चमोऽनामया स्वरः । धैवतः स्यान्मध्यमया प्रदेशिन्या निषादवान् ॥ ४५० ॥
मोचने संपूर्णः स्वरो जायते । तस्य अङ्गुलिकम्पने एकश्रुतिहीनस्वरोत्पत्तिरपचीयते, हीयत इत्यर्थः । अर्धमुक्ते रन्ध्रे श्रुतिद्वयं हीयते । तस्य कम्पे तिस्रः श्रुतयो हीयन्ते ॥ ४४३-४४७ ॥
(क०) मतान्तरेण वंशेषु स्वरोत्यत्ति दर्शयितुमाह -अर्धेन्दुनागफणवदिति । अर्धेन्दुः अर्धचन्दः, नागफणो हस्तविशेषः । वक्ष्यति च;
'एकतोऽङ्गुलिसंघाते यत्राङ्गुष्ठे स्थितेऽन्यतः ।
चन्द्ररेखाकृति ति सोऽर्धचन्द्रोऽभिधीयते ॥' इति । नागफणः सर्पशिरा नाम हस्तविशेषः ;
पताको निम्नमध्यो यः स तु सर्पशिराः करः' इति वक्ष्यमाणलक्षणः, तद्वत् । ताविव अर्धेन्दुनागफणाविव । अत्र वत्करणेन तयोः सादृश्यं गम्यते, न तु तावेव । एतदुक्तं भवति, 'करद्वयेऽङ्गुष्ठयोः पृथस्थित्या प्रत्येकमर्धेन्दुवदितरासामगुलीनामूर्वाभिमुखीनां नतत्वेन प्रत्येकं नागफणवञ्च प्रतीतिर्यथा भवति तथा' इति । एवंरूपं करद्वयं वंशे स्थाप्यम् । अङ्गुष्ठयोर्भागयोर्वशं धृत्वा अङ्गुलीभागौ संनिवेश्येत्यर्थः । वामस्यानामया षड्जः स्यादित्यादिना हस्तयोय॑त्यासेन संनिवेशः सूचितः ।
Scanned by Gitarth Ganga Research Institute