________________
षष्ठो वाद्याध्यायः मुक्ते तु ताररन्धेऽन्यरन्धेषु पिहितेषु च । अष्टमस्वरसंभूतिः पूर्वाचार्यैरुदीरिता ॥ ४४५ ॥ व्यक्तमुक्ताङ्गुलित्वेन समग्रो जायते स्वरः। अगुल्याः कम्पने तत्र श्रुतिरेकापचीयते ॥ ४४६ ॥ श्रुतिद्वयं त्वर्धमुक्ते तत्कम्पे तु श्रुतित्रयम् ।
अन्यथा वर्णयन्तीह केचित्सप्तस्वरोदयम् ॥ ४४७ ॥ मन्द्रर्षभः ; कलानिधौ द्वितीयो मन्द्रगान्धारः; एवं सर्वत्रोह्यम् । ततः ज्यादिरन्ध्रविमोचनात्तृतीयाद्याः सप्तम्यन्ताः क्रमाज्जायन्त इति । पूर्ववत् तत्तदपेक्षया ते ते तृतीयादयो द्रष्टव्याः । तद्यथा-अष्टादशाङ्गुले वंशे अन्तिमरन्ध्रद्वये मुक्ते सति मन्द्रषड्जात् तृतीयो मन्द्रगान्धारः ; कलानिधौ रन्ध्रत्रये मुक्ते मद्रर्षभात् तृतीयो मन्द्रमध्यमः ; एव सर्वत्र द्रष्टव्यम् । तथा च रन्ध्रचतुष्टयविमोचनेऽपि तत्तदपेक्षया चतुर्थस्वरादयो द्रष्टव्याः । मुक्ते विति । अष्टमस्वरसंभूतिरिति । यस्मिन् वंशे ताररन्ध्रादिसप्तरन्ध्रमुद्रणे कृते यः स्वरो जायते, अन्यरन्धेषु पिहितेषु ताररन्धे मुक्ते स एवाष्टमत्वेन जायत इत्यर्थः । व्यक्तमुक्ताङ्गुलित्वेन समग्र इति । शुद्धावस्थोक्तश्रुतियुक्त इत्यर्थः । अगुल्याः कम्पने त्वत्र स्वर एका श्रुतिरपचीयत इति । स स्वरः स्वोपान्त्यश्रुतिं गच्छतीत्यर्थः । श्रुतिद्वयं त्विति । अर्धमुक्ते श्रुतिद्वयमपचीयते । तत्कम्पे विति । अर्धमुक्ताङ्गुलिकम्पे तु श्रुतित्रयमपचीयत इति संबन्धः ॥ ४४३-४४७ ॥
__(सु०) तारस्थानस्थित इति । तारः षड्ज: एकवीरस्योत्पद्यते । सर्वेष्विति । वंशेषु अन्त्यरन्ध्रद्वये मुक्ते द्वितीयः स्वरो जायते । तृतीयचतुर्थाद्याः सप्तमपर्यन्ताः द्विकत्रिकचतुरादिरन्ध्रमोचनात् जायन्ते । मुक्त इति । ताररन्ध्र मुक्ते अन्यरन्ध्रेष्वाच्छादितेषु अष्टमस्वरोत्पत्तिः । व्यक्तेति । व्यक्तमेवाङ्गुलि
Scanned by Gitarth Ganga Research Institute