________________
३२४
संगीतरत्नाकरः तारस्थानस्थितः षड्जस्त्वेकवीरस्य जायते । सर्वेष्वेतेषु वंशेषु मुक्ते रन्ध्रद्वयेऽन्तिमे ॥ ४४३ ॥ स्वरो द्वितीयो जायेत तृतीयाद्यास्ततः परम् । सप्तमान्ताः प्रजायन्ते ज्यादिरन्ध्रविमोचनात् ॥ ४४४ ॥
निधौ, सप्तरन्ध्रमुद्रणे कृते मन्द्रर्षभो भवेत् । मनौ, मन्द्रगान्धारः ; आदित्ये, मन्द्रमध्यमः ; रुद्रे मन्द्रपञ्चमः ; महानन्दे, मन्द्रधैवतः ; नाथेन्द्र, मन्द्रनिषाद इति क्रमो द्रष्टव्यः । आरभ्येत्यादि । अष्टाङ्गुलात् वसुसंज्ञकात् द्वादशादारभ्य अधः सप्तसु वंशेषु ; एवमुक्तप्रकारेण मध्यस्थानगताः षड्जादयः सप्त क्रमादुद्भवन्तीति । वसौ, सप्तस्वररन्ध्रेषु मुद्रितेषु मध्यषड्जो भवेत् ; मनौ, मध्यर्षभः ; षण्मुखे, मध्यगान्धारः ; पञ्चवक्त्रे, मध्यमध्यमः ; चतुर्मुखे, मध्यपञ्चमः ; त्रिपुरुषे, मध्यधैवतः ; उमापतौ, मध्यनिषादश्व क्रमेण भवेदित्यर्थः ॥ -४४०-४४२ ॥
___(सु०) स्वरोत्पत्तिप्रकारमाह-अष्टादशाङ्गुल इति । सप्तसु रन्ध्रेषु मुद्रितेषु पिहितेषु मन्द्रषड्जो जायते । अन्यरन्धेषु पिहितेषु क्रमात् ऋषभादयः षट्स्वरा जायन्ते । अथवा अन्येषु वंशेषु ऋषभादयो जायन्त इति व्याख्येयम् ।
आरभ्येति । अष्टागुलवंशमारभ्य सप्तसु वंशेषु सप्त षङ्जादयः स्वराः क्रमात् उदयन्ति उद्यन्ति प्राप्नुवन्ति ॥ -४४०-४४२ ॥
(क०) तारस्थानस्थित इति । एकवीराख्यवंशस्य तु पूर्ववद्रन्ध्रमुद्रणे क्रियमाणे तारषड्जो जायते । सर्वेष्वित्यादि । एतेषु अष्टादशाङ्गुलादिषु अन्तिमे रन्ध्रद्वये मुक्ते सति अमुद्रिते सति । द्वितीयः खरो जायतेति । यस्मिन् वंशे यः स्वरः प्रथमत्वेन जायत इत्युक्तम् ; तदपेक्षया तत्र द्वितीयो जायत इत्यर्थः । तद्यथा--अष्टादशाङ्गुले द्वितीयो
Scanned by Gitarth Ganga Research Institute