________________
३२३
षष्ठो वाद्याध्यायः विरलाश्चातितारत्वादंशा पश्चाङ्गुलादधः । अष्टादशाङ्गुले वंशे स्वररन्ध्रेषु सप्तसु ॥ ४४० ॥ मुद्रितेषु भवेत्षड्जो मन्द्रसप्तकसंस्थितः । षट्स्वेवमन्यवंशेष स्युः क्रमादृषभादयः ॥ ४४१॥ आरभ्याष्टाङ्गलादेवमधो वंशेषु सप्तसु ।
मध्यस्थानगताः सप्तोद्यन्ति षड्जादयः क्रमात् ।। ४४२॥ उक्तहेतुना त्रयोदशाङ्गुलः पञ्चदशाङ्गुलश्च नेष्ट इति संबन्धः । द्वादशाङ्गुलादर्वाचीनेषु वंशेषु त्वगुलानामल्पसंख्यात्वेन भेदस्य स्फुटत्वात् भ्रान्तिर्न जायत इति भावो ज्ञेयः । एवमेकवीरादयः पश्चदश वंशभेदा भवन्ति ॥ ४३७-४३९- ॥
(सु०) ननु तत्र त्रयोदशाङ्गुल: पञ्चदशाङगुल: सप्तदशाङ्गुलः कथं नोक्तः ? अत आह-अविस्पष्टेति । मतान्तरमाह-मुरल्याख्येति । विंशत्यङ्गुलो मुरली अपरैराचार्यैः श्रितोऽङ्गीकृतः । द्वाविंशति । द्वाविंशत्यङ्गुलो वंशो दृश्यते ; तं वशं श्रुतिनिधिरिति वांशिका आहुः । सूक्ष्मध्वनित्वेन असौ सुज्ञैः नाङ्गीक्रियते । पञ्चाशुलाद्या वंशा अतितारत्वात् विरलाः, न सर्वैराद्रियन्त इत्यर्थः ॥ ४३७-४३९- ॥
(क०) पञ्चाङ्गुलादध इति । चतुरङ्गुलव्यङ्गुलद्वयङ्गुलैकाङ्गुलान्तरा एव वंशा इत्यर्थः । अयमभिप्रायः-वंशस्यातिदीर्घत्वेऽतिमन्द्रस्वरत्वम् , अतिहस्वत्वेऽतितारस्वरत्वं वा सर्वगातृसाधारणत्वाभावादोष इति । अष्टादशाङ्गुल इति । अस्मिन् वंशे सप्तसु स्वररन्धेषु । मुद्रितेविति । वायुनिर्गमननिमित्तमदृष्टमष्टमं रन्धं मुक्त्वा सप्तमादिषु सप्तसु रन्धेषु यथाशास्त्रं हस्तद्वयङ्गुलमुखैः पिहितेषु सत्सु मन्द्रसप्तकस्य आदितः षड्जो भवेत् । एवं षट्खन्यवंशेषु ऋषभादयः क्रमात्म्युरिति । कला
Scanned by Gitarth Ganga Research Institute