________________
३२२
संगीतरत्नाकरः अविस्पष्टान्तरत्वेन नेष्टः सप्तदशाङ्गुलः । त्रयोदशाङ्गुलस्तद्वन्न च पञ्चदशाङ्गुलः ॥ ४३७॥ मुरल्याख्योऽपरैर्वशो विंशत्यगुलकः श्रितः । द्वाविंशत्यगुलोऽप्यन्यो वंशस्तज्ज्ञेषु दृश्यते ॥ ४३८ ॥ तं च श्रुतिनिधि प्राहुर्वशं वंशविदो जनाः ।
अतिमन्द्रध्वनित्वेन नेष्यतेऽसौ विचक्षणैः ॥ ४३९ ॥ उमापतिरित्युच्यते । मनुवंशश्चतुर्दश इति । तत्र चतुर्दशो वंशः, चतुर्दशाङ्गुल इत्यर्थः । नतु चतुर्दशो वंशः । षोडशः स्यादित्यपि षोडशाङ्गुलान्तर इत्यर्थः । नतु षोडशो वंशः । अन्वर्थ इति । षोडशागुल इति संज्ञा लक्षणं चेत्यर्थः ॥ ४३२-४३६ ॥
(सु०) वंशभेदानाह-वंशस्येति । मुखपूरणरन्ध्रस्य ताररन्ध्रस्य च यो मध्यभाग: अष्टादशाङ्गुलपर्यन्तं तस्मादेकैकागुलवृद्धया चतुर्दशवंशा भवन्ति । तेषां नामान्याह-उमापतिरिति । तत्र वर्धितानामेवामुलानां संख्यानिर्देश: । द्वयगुल उमापति: ; व्यङ्गुल: त्रिपुरुष: ; चतुरङ्गुल: चतुर्मुखः ; पञ्चाङ्लः पञ्चवक्त्रः; षडङ्गुलः षण्मुखः ; सप्ताङ्गुलो मुनिः ; अष्टाङ्गुलो वसुः; नवाझुलो नाथेन्द्रः ; दशाङ्गुलो महानन्दः ; एकादशाङ्गुलो रुद्रः ; द्वादशाङ्गुल आदित्यः; चतुर्दशाङ्गुलो मनुः ; षोडशाङ्गुल: कलानिधिः ; अष्टादशाङ्गुल अन्वर्थ एव । ॥ ४३२-४३६ ॥
(क०) ' एकैकाङ्गुलवृद्धया स्युः' इत्येकादिक्रमेण प्रक्रम्य त्रयोदश पञ्चदशसप्तदशाङ्गुलानां परित्यागे हेतुमाह --अविस्पष्टान्तरत्वेनेति । अविस्पष्टान्तरं भेदो यस्येति तथोक्तः, तस्य भावस्तत्त्वम् । अयमर्थः-- पूर्वोत्तरयोः षोडशाष्टादशाङ्गुलयोः सारूप्येण मध्यमस्य सप्तदशाङ्गुलस्य ताभ्यां भेदे विद्यमानेऽप्यविस्पष्टः संस्तयोर्धान्ति जनयतीति । तद्वदिति ;
Scanned by Gitarth Ganga Research Institute