________________
षष्ठो वाद्याध्यायः
वंशस्य मुखरन्ध्रस्य ताररन्ध्रस्य चान्तरे । एकैकाङ्गुलहृद्धया स्युरन्ये वंशाश्चतुर्दश ॥ ४३२ ॥ अष्टादशाङ्गुलाद्वंशादेतदगुलवर्धनम् । उमापतिर्द्वयगुलः स्यात्त्रिभिस्त्रिपुरुषोऽङ्गुलैः || ४३३ | चतुर्मुखचतुर्भिः मः स्यात्पञ्चवक्त्रस्तु पञ्चभिः ।
षडङ्गुलः षण्मुखः स्यान्मुनिः सप्ताङ्गुलो मतः ।। ४३४ ॥ वसुरष्टाङ्गुलः प्रोक्तो नाथेन्द्रस्तु नवाङ्गुलः । दशाङ्गुलो महानन्दो रुद्रस्त्वेकादशाङ्गुलः ॥ ४३५ ॥ द्वादशाङ्गुल आदित्यो मनुर्वशश्चतुर्दशः । कलानिधिः षोडशः स्यादन्वर्थोऽष्टादशाङ्गुलः ॥ ४३६ ॥
३२१
मुखपवनपरिपूरणाय अङ्गुलप्रमाणं छिद्रं कार्यम् । तस्मात् छिद्रात् ताररन्ध्र तारस्वरस्थानरन्ध्रान्तरस्य स्थानात् रन्ध्रमेकाङ्गुलान्तरं स्यात् । अन्यान्यपि सप्त रन्ध्राणि अर्धाङ्गुलप्रमाणमध्यानि कार्याणि । अष्टावपि रन्ध्राणि बदरीवीजवत् । वंश इति । सर्वरन्ध्रेभ्यः सकाशात् अधः प्रदेशे वंशः मङ्गुलद्वयमात्रः परिशेषणीयः, रन्ध्रहीनः स्थापयितव्यः । तेषु अष्टसु रन्ध्रेषु स्वरविभागाय संपूर्णरन्ध्राणि नादोत्पत्यर्थम्, अष्टमं तु पवननिर्गमाय । फूत्कारेति । फूत्कारादुत्पन्नो वायुः मुखरन्ध्रेण पूर्यते । नवभी रन्ध्रेर्युक्तो वंश एकवीर इच्युच्यते ॥-४२४-४३१॥
(क०) मुखताररन्ध्रयोरन्तरालेऽङ्गुलवर्धनादन्यांश्चतुर्दश वंशभेदानाह - - - वंशस्येत्यादि । अङ्गुलवर्धनस्य परावधिमाह --- आष्टादशाङ्गुला - द्वंशादिति । अष्टादशाङ्गुलो नामान्वर्थो वंशो वक्ष्यते, तत्पर्यन्तमित्यर्थः । एतदङ्गुलवर्धनमिति । मुखताररन्धयोरन्तरालेऽङ्गुलवर्धनं कर्तव्यमित्यर्थः । द्व्यङ्गुलः स्यादिति । प्रकृतेऽन्तराले द्वे अंगुली यस्येति तथोक्तः, स
41
Scanned by Gitarth Ganga Research Institute