________________
३२०
संगीतरत्नाकर:
तेषु स्वरविभागाय सप्तरन्ध्राणि मन्वते । नादहेतोर्मारुतस्य निर्गमायाष्टमं मतम् ॥ ४३० ॥ फूत्कारप्रभवो वायुः पूर्यते मुखरन्ध्रतः । वंशस्थैर्नवभी रन्धैरेकवीरो निगद्यते ।। ४३१ ॥
;
सप्त रन्त्राण्यङ्गुलान्तराणि अङ्गुलस्यार्धमर्धाङ्गुलम्, तदन्तरं मध्यं येषां तानि तथोक्तानि । बदरीबीजसंकाशानीति । यद्यपि रन्ध्राणामाकाशात्मकत्वेन अमूर्तत्वात् बदरीसंकाशत्वं नोपपद्यते, तथापि बदरीबीजप्रवेशात्वेनोपाधिकं परिमाणमुक्तमित्यविरोधः । सर्वरन्ध्रेभ्य इति । नवभ्यो रन्ध्रेभ्योऽधः सर्वाग्रभाग इत्यर्थः । अङ्गुलद्वयं परिशेष्येति । तत्र रन्ध्रमकृत्वेत्यर्थः । अनेनास्य वंशस्य आयामपरिमाणमूलभागे अगुलद्वयं युक्तं चेत् द्वादशाङ्गुलम् ; अङ्गुलत्रयं युक्तं चेत् त्रयोदशाङ्गुलम् ; चतुरङ्गुलं युक्तं चेत् चतुर्दशाङ्ल मित्युक्तं भवति
॥ - ४२४-४२९ ॥
(क) एवं नवसु रन्ध्रेष्वाद्यन्तरन्ध्रे विहाय मध्यस्थितेषु सप्तसु रन्ध्रेषु स्वरविभागो भवतीत्याह-एकवीरो निगद्यत इति । एकवीरसंज्ञया निगद्यत इत्यर्थः । मुखताररन्धयोरेकाङ्गुलान्तरितत्वादनर्थता च द्रष्टव्या ॥ ४३०, ४३१ ॥
(सु० ) अथ सुषिरवाद्यं लिलक्षयिषुर्वशं लक्षयति--- वैणव इति । वैणवः ; वेणुरचित: । गजदन्तादिरचितो दान्तः । चन्दनकृत: चान्दन: । लोहकृत आयसः । लोहसंसृष्टजन्य: कांस्यजः । रौप्यः राजतः । काञ्चनः सुवर्णघटितो वा वंश: कर्तव्यः । स च वर्तुलः सुवृत्त:, दीर्घः, मसृणः, ग्रन्ध्यादिहीनः कार्यः । कनिष्ठाङ्गुलिप्रमाणं मध्ये रन्ध्रं दधानः स्वप्रमाणं सर्वत्र सममेवेति रन्ध्रविशेषणम् । तस्येति । तस्य ; वंशस्य द्वे त्रीणि चत्वारि वा अङ्गुलानि मस्तकप्रदेशात् परित्यज्य फूत्काराय
Scanned by Gitarth Ganga Research Institute