________________
षष्ठो वाद्याध्यायः
३११ वैणवः खादिरो दान्तश्चान्दनो राक्तचन्दनः ॥ ४२४ ॥ आयसः कांस्यजो रौप्यो वंशः स्यात्काश्चनोऽथवा । वर्तुल: सरल: श्लक्ष्णो ग्रन्थिभेदव्रणोज्झितः ॥ ४२५ ॥ कनिष्ठाङ्गुलिविस्तार गर्ने च सुषिरं दधत् । खदैर्घ्यमानदैर्घ्यं च समाकृति समंततः ।। ४२६ ॥ तस्य द्वे त्रीणि चत्वारि चागुलानि शिरःस्थलात् । त्यक्त्वा फूत्कारसुषिरं कार्यमगुलसंमितम् ॥ ४२७ ।। मुखरन्ध्रात्ताररन्धं भवेदेकागुलान्तरम् । अर्धागुलान्तराणि स्यू रन्ध्राण्यन्यानि सप्त च ॥ ४२८ ।। तान्यष्टौ बदरीबीजसंकाशानि प्रचक्षते ।। वंशेऽधः सर्वरन्ध्रेभ्यः परिशेष्याङ्गुलद्वयम् ॥ ४२९ ।।
(क०) अथ सुषिरवाद्येषु प्रथमोद्दिष्टं वंशं लक्षयति-वैणव इति । दान्तः, गजदन्तनिर्मितः । तस्य शिरःस्थलादिति । वंशदण्डस्य मूलस्थलात् दारुमूलभागादित्यर्थः । तच्छिरःस्थलमारभ्य द्वे त्रीणि चत्वारि वेति पक्षत्रयम् । तेष्वेकपक्षाश्रयणेन अङ्गुलपरित्यागं कृत्वा अङ्गुलिसंमितं वर्तुलत्वेन परितोऽङ्गुलपरिमाणं फूत्कारसुषिरं मुखसंयोगेन वायुपूरणार्थ रन्धं कर्तव्यम् । तदेव मुखरन्ध्रमित्युच्यते । तस्मात् मुखरन्ध्रात् ताररन्धं तारस्वराभिव्यक्तिनिमित्तम् । तत्र फूत्काररन्ध्रसंनिहिते रन्धे तारस्वर एव जायते । यथा शरीरे सकलस्वरसाधारणेन ताल्वोष्ठादिव्यापारेणामिवादने क्रियमाणे तत्संनिहितत्वेन मूर्ध्नि तारस्वर एव जायते । यथा वा एकतन्व्यादिकायां वीणायां सकलस्वरसाधारणेन दक्षिणहस्ताङ्गुलिव्यापारेण तन्त्रीवादने क्रियमाणे तत्संनिहितसारिकादिषु तार एव स्वरो जायते । एवमत्रापि द्रष्टव्यम् । तच्च मुखरन्ध्रादेकाङ्गुलान्तरं भवेत् । अन्यानि
Scanned by Gitarth Ganga Research Institute