SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३१८ संगीतरत्नाकरः नादश्रुतिस्वरयामजातिरागादि तत्त्ववित् । देहसौष्ठवसंपन्नः स्थिरासनपरिग्रहः ।। ४२२ ।। जितश्रमकरद्वन्द्वस्त्यक्तभीतिर्जितेन्द्रियः । प्रगल्भधीः सुशारीरो गीतवादनकोविदः ॥ ४२३ ॥ सावधानमनाश्चेति वैणिके वर्णिता गुणाः । इति ततवाद्यलक्षणम् (सु०) ननु पूर्वशास्त्रेश्वनुक्तां वीणां शार्ङ्गदेवः किमिति स्वनाम्ना रचितेत्यत आह-यथेति । यथा यथा स्वराणां रागाभिव्यक्तौ रञ्जकत्वस्य बाहुल्यं तथा तथा ततवाद्ये स्वेच्छया कर्तव्यम् । अस्माभिस्तु समीचीनस्वरामिक्त्युपयोगीनिति कानिचित् तन्त्रीवाद्यान्युक्तानि । अन्यानपि, अनेन प्रकारेण अनया दिशा प्राज्ञ ऊहयेत् । वीणावादनं स्तौति—य इति । वीणावादनेन मोक्षं प्रामोतीत्युक्तं याज्ञवल्क्येन यदाह “वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । तालज्ञश्चाप्रयासेन मोक्षमार्ग नियच्छति ॥" (याज्ञवल्क्यस्मृति:, प्रायश्चित्ताध्यायः ३-४-११५) इति ॥ -४१८-४२१॥ (क०) प्रसङ्गाद्वीणावादनस्य गुणानाह-नादश्रुतीत्यादिना ॥ ॥ ४२२, ४२३ ॥ इति ततवाद्यलक्षणम् (सु०) वीणावादकगुणानाह–नादेति । त्यक्तभीति: ; निर्भयः । प्रगल्भधीः; अविकलबुद्धिः । सुशारीरः; सुकुमारशारीरः । गीतवादनकोविदः; गीतस्य वादने कुशल: ; सावधानमनाः ; निश्चलचित्त इति ॥ ४२२, ४२३-॥ इति ततवाद्यलक्षणम् Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy