________________
षष्ठो वाद्याध्यायः
३१७
धनुषा वामहस्तस्थतुम्बकेन च सारणा । आईचर्मकृतां शुष्कां पेशी कोणान्वितां खराम् ॥ ४१६ ॥ वामेनादाय तत्कोणेनाथवा सारणा भवेत् । यत्र निःशङ्कवीणा सा शाङ्गदेवेन कीर्तिता ॥ ४१७ ॥ त्रिस्थानस्वररागादिव्यक्तिः संजायते तया ।
इति निःशङ्कवीणालक्षणम् यथा यथा स्वरे व्यक्ती रक्तेः प्रचुरता भवेत् ॥ ४१८ ॥ तथा तथा विधातव्यं ततं लोकानुसारतः । सम्यक्स्वरोपयोगीनि तन्त्रीवाद्यानि कानिचित् ॥ ४१९ ॥ उक्तान्यन्यान्यपि प्राज्ञस्तकेयेदनया दिशा । यो वीणावादनं वेत्ति तत्वतः श्रुतिजातिवित् ॥ ४२० ।। तालपातकलाभिज्ञः सोऽक्लेशान्मोक्षमृच्छति ।
तस्माद्वीणा निषेव्येति याज्ञवल्क्यादयोऽब्रुवन् ॥ ४२१ ॥ तुम्बे बद्धा, वीणाया वादनमिति संबन्धः । किं कृत्वा वादनम् ? वामोरुमूलेन आक्रान्तानां यथा भवति तथेति क्रियाविशेषणम् । कुजितायां वामजवायां न्यस्य दक्षिणया आक्रम्य पिनाकीवदिति संबन्धः । धनुषेति । धनुषा कार्मुकेन वामहस्तस्थितेन तुम्बेन वा सारणा कर्तव्या । अथवा आर्द्रचर्मकृतां पेशी विशोष्य खरा कोणेन सह वामहस्तेनादाय कोणेन सारणा कर्तव्येति । एवं लक्षणका निःशङ्कवीणा | तस्याः प्रयोजनमाह-त्रिस्थानेति । तया; नि:शङ्कवीणया सर्वस्वराद्यभिव्यक्ति: संजायते ॥ ४१२-४१७- ।।
इति नि:शङ्कवीणालक्षणम् (क०) वीणावादनपरिज्ञाने फलमाह-यो वीणावादनमिति ।। ॥ -४१८-४२१ ॥
Scanned by Gitarth Ganga Research Institute