________________
संगीतरत्नाकरः आक्रम्य वामहस्तस्थतुम्बमूलेन तद्गुणम् । ततो दक्षिणहस्तस्थधनुषो वादयेज्ज्यया ।। ४१० ॥ रालासंलिप्तयास्यां च स्वरस्थानानि निर्णयेत् । एकतन्त्रीवदधराधरतारतया सुधीः ॥ ४११ ॥
___ इति पिनाकीलक्षणम् वध्यमान्तातिरिक्तेशे तन्त्री दैर्ये चतुष्करा । उपरिस्थे कचित्काष्ठे प्रान्तेनैकेन बध्यते ॥ ४१२ ।। प्रान्तान्तरेणान्यकाष्ठेऽधस्थे साधेकरायते ।। स्थौल्येनालापिनीतुल्ये त्यक्त्वाग्रादङ्गुलद्वयम् ॥ ४१३ ॥ तन्त्री बद्धा ततोऽधस्तात्तुम्बमाबद्धय दारु तत् । वामोरुमूलाक्रान्ताग्रं जवायां कुञ्चिताकृतो ॥ ४१४ ॥ भूलमबाह्यपार्थायां वामायां न्यस्य जङ्घया । आक्रम्य वामेतरया पिनाक्यामिव वादनम् ।। ४१५ ।।
ऊर्ध्वा शिखा पिनाकीस्कन्ध आश्रिता । तस्याः गुणं वामहस्तस्थितं तुम्बस्य मूलेनाक्रम्य तज्ज्ञो वादक: दक्षिणहस्तस्थितस्य धनुषः ज्यया गुणेन वादयेत् । राला लोकप्रसिद्धः सालवृक्षनिर्यासविशेषः, तया लिप्तयेति ज्याविशेषणम् । अस्यां च, पिनाक्याम् ; एकतन्त्रीवत् अधराधरतारतया स्वरस्थानानि निर्णयेत् ॥ ४०२-४११॥
इति पिनाकीलक्षणम् ___ (सु०) नि:शङ्कवीणां लक्षयति-वध्येति । दैये चतुष्करपरिमिता तन्त्री बन्धनीया । प्रान्तातिरिक्त अंशे कचिदुपरिस्थिते काष्ठे प्रान्तेन बनीयात् । अन्त्येन प्रान्तेन सार्धकरा, भवेत् । तत्स्थूलत्वेन आलापिन्या तुल्ये अध:स्थिते काष्ठे अग्रात् अङ्गुलद्वयं परित्यज्य तन्त्री बन्धनीया । ततः सा तन्त्री दारुणि
Scanned by Gitarth Ganga Research Institute