________________
३१५
षष्ठो वाद्याध्यायः अन्ते चाशुलमानेन शिखां कुर्यादधस्तनीम् । सपादाङ्गुलमात्रा तु कार्मुकस्योत्तरा शिखा ॥ ४०३ ।। कार्यावङ्गुलदैयौ च पादोनागुलपिण्डको ।
खेटको शिखयोर्लगौ ताभ्यां त्वर्वागुपान्त्ययोः ॥ ४०४ ॥ पादोनमङ्गुलद्वन्द्वं विस्तारे मानमिष्यते । मध्यप्रान्तान्तराले तु विस्तारं कल्पयेत्सुधीः ॥ ४०५ ॥ तन्त्रीमानेन बनीयाच्छिखयोनिपुणो गुणम् । मानं वादनचापे स्यादगुलान्येकविंशतिः ॥ ४०६ ॥ दैध्ये मुष्टौ तु विस्तारोऽत्रागुलित्रितयोन्मितः । स त्वङ्गुलतृतीयांशः शिखे त्यक्त्वान्तयोर्भवेत् ।। ४०७ ।। ऊर्ध्वाधरशिखाद्वन्द्वमानं पादोनमगुलम् । अश्ववालधिकेशोत्यो गुणो वादनधन्वनः ॥ ४०८ ।। तुम्बं धृत्वाथ पादाभ्यां भुवि न्यस्तमधोमुखम् ।
तत्र लमशिखाथो; पिनाकीस्कन्धसंश्रिता ॥ ४०९ ॥ शदडगुलं दैर्घ्य, धनुष: कार्मुकस्य कम्रा तन्त्रीवादनाय कोणः कर्तव्यः । सा कम्रामध्ये सपादाङ्गुलविस्तृता कार्या । अधःशिखा कार्मुकस्याङ्गुलप्रमाणा, तृतीयात् धनुष उत्तरा शिखा तु सपादाङ्गुलप्रमाणा कार्या । शिखयो:, लग्नाभ्यां शिखाभ्यामर्वाक्प्रदेशे अङ्गुलदीर्घः पादाङ्गुलपिण्डकायामः खेटको कार्यो । उपान्त्ययोर्मानं विस्तारे पादोनमगुलद्वयम् । मध्यमान्तरालानां मानकल्पनायां तन्त्रीप्रमाणेन शिखयोर्गुणं बधीयात् । वादनधनुषो दीर्घमानमेकविंशतिरङ्गुलानि । अत्र कार्मुके मुष्टौ, विस्तारः अङ्गुलित्रितयेन उन्मित: परिमित: स मुष्टिः अशुलतृतीयांशं मुक्त्वा शिखयोरन्तयोः स्यात् । शिखयोर्मानं पादोनमगुलं ज्ञातव्यम् । वादनस्य धन्वनो धनुषो गुणः अश्ववालै: कैशैर्वा कर्तव्यः । वादनप्रकारमाह-तुम्बमिति । अधोमुखं पृथिव्यां न्यस्य, तुम्बं च पादाभ्यां धृत्वा
Scanned by Gitarth Ganga Research Institute