SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३१३ षष्ठो वाद्याध्यायः ग्रहं मालविनः कृत्वा द्वितीयं प्रोच्य तत्परम् । लङ्घयेल्लवितादुर्ध्वं त्रीण्यारुह्यावरुह्य च ॥ ३९४ ॥ प्रकम्प्य लङ्घितं तस्मात्पूर्व प्रोच्य ग्रहं व्रजेत् । यदा तदा द्राविडः स्याद्गौडोऽसौ सालगो जनैः ।। ३९५ ॥ अस्यापि स्थायिनं प्राहुर्लक्ष्यज्ञाः पञ्चमं स्वरम् । इति द्राविडगौडः (लोके प्रसिद्धः सालगः) स्थायिनो धैवतात्माच्यादवरुह्यग्रहान्तरम् ।। ३९६ ॥ ग्रहं चोक्त्वा तृतीयं च तुर्य कृत्वा विलम्बितम् ।। तस्मादधस्तनौ स्पृष्ठा तृतीयं तु विलम्बयेत् ॥ ३९७ ।। स्पृष्ट्वा ग्रहात्परं पूर्वो पूर्व चोक्त्वा ग्रहे यदि । कम्पिते न्यस्यते रागस्तदा स्याल्ललिताभिधः ॥ ३९८ ।। अत्र गान्धारमेवाहुः स्थायिनं लक्ष्यवेदिनः । ___ इति ललिता इत्युपाङ्गानि (सु०) ग्रहमिति । ग्रहं स्वरं कृत्वा, ततः तृतीयमुच्चार्य, तत्परं तृतीयं लङ्घयेत् । ईषत्स्पृशेत् । तत: लवितात् स्वरात् , परान् त्रीन् स्वरानारोहावरोहेण गीत्वा, लचितं स्वरं कम्पयित्वा, तत: पूर्वमुच्चार्य ग्रहे समाप्तौ द्राविडगौडः । असौ लोके सालगगौड इत्युच्यते ॥ ३९४, ३९५- ॥ इति द्राविडगौडः (सु०) स्थायिन इति । धैवतं स्थायिनं कृत्वा, तस्मात् पूर्वी द्वौ स्वरौ अवरुह्य, प्रहात् स्थायिनोऽधरं पूर्व स्वरं ग्रहं चोक्त्वा, तृतीयचतुर्थी विलम्बितौ कुर्यात् । ततः तस्मात् चतुर्थात् द्वौ पूर्वस्वरौ स्पृष्ट्वा शीघ्र गीत्वा तृतीयं Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy