________________
३१२
संगीतरत्नाकरः स्थायिनो मध्यमात्पश्चावरुह्य यदि मावधीन् । मात्तृतीयं व्रजेत्तस्मादारुह्य चतुरः स्वरान् ॥ ३८८ ।। स्पृष्ट्वा स्थायिनमेतस्मात्पूर्व कृत्ला विलम्बितम् । षड्जे चेन्न्यस्यते गौडकर्णाटो जायते तदा ॥ ३८९ ॥ लक्ष्ये तु पञ्चमः स्थायी गौडस्यास्य विलोक्यते ।
इति कर्णाटगौडः ग्रहान्मन्द्रनिषादाचेत्समुच्चार्य स्वरं परम् ।। ३९० ॥ ततस्तृतीयतुर्यों च गत्वा स्थायितृतीयकम् । स्थायितुर्यं च कृत्वास्मात्स्वरान्पञ्चावरुह्य च ॥ ३९१ ॥ स्थायिनोऽधस्तुरीयं च स्थायिनोऽधस्तनं ततः । स्थायिनं तत्परं चोक्त्वा स्थायितुर्य ग्रहात्परम् ॥ ३९२ ।। कृत्वा न्यासे ग्रहे गौडस्तुरुष्को जायते तदा । स एव मालवीत्युक्तः स्थायी लक्ष्येऽस्य पञ्चमः ।। ३९३ ।।
इति तुरुष्कगोड: (सु०) स्थायिन इति । मध्यमात् स्थायिनस्तृतीयस्वरपर्यन्तमागत्य, ततश्चतुःस्वरानारोहेत् । तत: स्थायिनं स्पृष्ट्वा पूर्व विलम्बितमुच्चार्य षड्जे समाप्तिश्चेत्, तदा कर्णाटगौडः ॥ ३८८, ३८९- ॥
____ इति कर्णाटगौड: (८). (सु०) ग्रहादिति । ग्रहं मन्द्रनिषादं, तत्परं षड्ज तृतीयतुर्यों च गीत्वा, तत: स्थायिनः तृतीयं तुर्य च विधाय, चतुर्थपञ्चमाववरुह्य स्थायिनः सकाशात्पूर्व तृतीयमधस्तनं स्थायिनं चोक्त्वा, स्थायिनस्तुरीयं द्वितीयं चोच्चार्य ग्रहे न्यासे, तुरुष्कगौडः । लक्ष्येऽस्य स्थायी पञ्चमः ॥ -३९०-३९३ ॥
___ इति तुरुष्कगौडः (९)
Scanned by Gitarth Ganga Research Institute