________________
३११
षष्ठो वाद्याध्यायः मध्यषड्जं ग्रहं कृत्वा तत्परौ द्वौ च पञ्चमम् । षष्ठं कृत्वावरुह्यमौ तृतीयादवरुह्य च ।। ३८२ ॥ आग्रहं प्राक्तृतीयाद्वावरुह्य प्राक्तृतीयकम् । प्रकम्प्य तत्परं प्रोच्य ग्रहे चेन्न्यस्यते तदा ॥ ३८३ ।। रामक्री स्यादसो प्रोक्ता बहुलीपूर्विका जनैः ।
इति बहुलीरामक्री धैवतं स्थायिनं कृत्वा तत्परं तु विलम्बितम् ।। ३८४ ।। स्पृष्ट्वा ग्रहद्वितीयौ च ग्रहात्तु प्राक्तृतीयकम् । इंपद्विलम्ब्य चारुह्य ग्रहादीन्वा तृतीयकम् ।। ३८५ ।। विलम्ब्य तदधःस्थं वावरुह्य स्पर्शनात्ततः । ग्रहादीस्त्रीन्स्वरान्स्पृष्ट्वा ग्रहमुच्चार्य तत्परम् ॥ ३८६ ॥ ग्रहे चेन्यस्यते रागो मल्हारो जायते तदा। रागेऽत्र पञ्चमः स्थायी दृश्यते लक्ष्यगोचरः ।। ३८७ ।।
इति मल्हारः (सु०) मध्यषड्जेति । मध्यस्थानस्थषड्जः द्वितीयतृतीयपञ्चमषष्ठाः, पञ्चमषष्ठावुच्चार्य, षष्ठपञ्चमाववरुह्य, तृतीयात् ग्रहपर्यन्तमवरुह्य, पूर्व तृतीयाद्वावरुह्य, पूर्व चतुर्थं कम्पितं गीत्वा, तत्परमुच्चार्य ग्रहस्वरे समाप्तिः क्रियते चेत्, तदा बहुलीरामक्री ॥ ३८२, ३८३- ॥
इति बहुलीरामकी (६) (सु०) धैवतमिति । धैवतमुच्चार्य विलम्बितो निषादः, ततो ग्रहद्वितीययोः स्पर्शः, ग्रहात्पूर्व तृतीय ईषद्विलम्बित:, ग्रहादीनां त्रयाणामारोहः, ग्रहादध:स्थस्य विलम्बेनोच्चारणम् , ग्रहादीनां त्रयाणां शीघ्रमवरोहः । ततो ग्रहं स्पृष्ट्वा, तृतीयमुच्चार्य ग्रहे समाप्तौ मल्हारः । अस्य स्थायी पञ्चमः ॥ -३८४-३८७ ॥
इति मल्हार: (७)
Scanned by Gitarth Ganga Research Institute