________________
३१०
संगीतरत्नाकरः धैवतं स्थायिनं कृत्वा गं चाधःस्थं पुनर्ग्रहम् ॥ ३७६ ॥ तत्परं स्थायिनं तस्मात्पूर्वमागत्य च ग्रहम् । आरुह्य त्रीस्तृतीयादीन् पञ्चमादवरुह्य च ॥ ३७७ ॥ षट् स्वरान् ग्रहमुच्चार्य तृतीयं कम्पयेत्ततः । तुर्यपञ्चमतुर्याश्च स्पृष्ट्वा पोच्य तृतीयकम् ।। ३७८ ॥ द्वितीयं च ग्रहे न्यासो यदा स्याटैरवी तदा । अस्य रागस्य गान्धारः स्थायी लक्ष्येषु दृश्यते ॥ ३७९ ॥
इति भैरवी मन्द्रषड्ज ग्रहं कृत्वा मध्यपड्जमुपेत्य च । अवरोहिक्रमादेत्य ग्रहमारोहिणा ततः ।। ३८० ॥ पमागत्य विलम्ब्याएं स्पृष्ट्वा धैवतमाव्रजेत् । ग्रहाच्चेदवरोहेण च्छायानट्टा तदा भवेत् ॥ ३८१ ॥
इति च्छायानट्टा
(सु०) धैवतमिति । धैवतं स्थायिनं कृत्वा, गम् ; गान्धारं धैवतादधःस्थं पञ्चमं पुनः धैवतनिषादौ स्थायिनं तदधःस्थं ग्रहं च संप्राप्य तृतीयादीन् त्रीनारुह्य, षट् चावरुह्य तृतीयं कम्पयेत् । तुर्यादीन् स्पृष्ट्वा तृतीयद्वितीयावुच्चार्य ग्रहे समाप्तौ भैरवी । अस्या गान्धारः स्थायी ॥ -३७६-३७९ ॥
इति भैरवी (४)
___ (सु०) मन्द्रषड्जमिति । मन्द्रस्थानस्थात् षड्जात् मध्यमषड्ज गच्छेत् । ततोऽवरोहेण स्यायिपर्यन्तमागत्य, आरोहेण पञ्चमं गीत्वा, अमुं पञ्चमं विलम्ब्य स्पृष्ट्वा च धैवतमुच्चारयेत् , तदा छायानट्टा ॥ ३८०, ३८१ ॥
इति च्छायानट्टा (५)
Scanned by Gitarth Ganga Research Institute