________________
षष्ठो वाद्याध्यायः
महाधस्तुर्यपर्यन्तमागत्याप्यवरोहिणा ॥ ३७१ ॥ ततस्तृतीयमारुह्य क्रमादेत्य प्रकम्प्य च । हे न्यासो यदा रागस्तदा गौडकृतिर्भवेत् || ३७२ ॥ पञ्चमो लक्ष्यते स्थायी लक्ष्ये स्याल्लक्ष्यवेदिभिः । इति गौडकृति:
मध्यषड्जं ग्रहं कृत्वाधस्थमेत्य पुनर्ब्रहम् || ३७३ || कृत्वा तृतीयतुर्यौ च कम्पितं पञ्चमं स्वरम् । वादयित्वा ग्रहात्तुर्य तृतीयं स्थायिनं तथा ।। ३७४ || द्वितीयं कम्पयित्वा च तृतीयं स्वरमास्पृशेत् । ततो यदि ग्रहे न्यासस्तदा देवकृतिर्भवेत् || ३७५ || अस्यास्तु मध्यमो न्यासो लक्ष्ये श्रीशाङ्गिणोदितः ।
इति देवकृति: इति क्रियाङ्गानि
३०९
तस्मात् त्रीना रोहेत् । ततो ग्रहात् तृतीयं स्पृष्ट्वा, अवरोहेण ग्रहादधस्तन चतुर्थ - पर्यन्तमवरुद्ध, तृतीयपर्यन्तं चारुह्य मध्यमे समाप्तौ गौडकृतिः । लक्ष्ये स्थायी पञ्चमः स्यात् ॥ - ३७०-३७२ - ॥
इति गौडकृति: ( २ )
(सु० ) मध्यषड्जमिति । मध्यस्थानस्थः षड्जो: ग्रहः, तमुच्चार्य तदधःस्थं च तृतीयचतुर्थौ च कृत्वा पञ्चमं कम्पयेत् । ततश्च ग्रहचतुर्थादीन् कम्पितान् गीत्वा तृतीयस्वरं स्पृशेत् शीघ्रं गायेत् । ततो यदि ग्रहे च न्यासस्तदा देवकृतिः । अस्या न्यासस्तु लक्ष्ये मध्यमः ॥ - ३७३-३७५- ॥
,
इति देवकृति: (३)
इति क्रियाङ्गानि
Scanned by Gitarth Ganga Research Institute