________________
संगीतरत्नाकरः आरुह्य चतुरस्तस्मादवरोहे ग्रहं व्रजेत् । यदा तदा स्यात्कामोदा मध्यमोऽस्या ग्रहो भवेत् ॥ ३६६ ॥
इति कामोदा
इति भाषाङ्गानि षड्ज तु स्थायिनं कृत्वा तत्पूर्वस्वरमेत्य च । स्वरद्वयं द्विरारुह्य तृतीयं च चतुर्थकम् ॥ ३६७ ।। प्रकम्प्याथ तृतीयं च विलम्ब्याहत्य पञ्चमम् । स्थाय्यन्तमवरोहेच्चेत्स्वरानृषभवर्जितान् ॥ ३६८ ॥ मध्यषड्ज ग्रहं कृत्वा सह प्राचा परौ स्वरौ । पोच्य तुर्य विलम्ब्याथ तृतीयं सद्वितीयकम् ॥ ३६९ ।। स्पृष्ट्वा यदा ग्रहे न्यासस्तदा रामकृतिर्भवेत् ।
इति रामकृतिः स्थायिनं मध्यमं कृत्वाधश्चतुर्थमुपेत्य च ॥ ३७० ॥
ग्रहाधरांस्त्रीनारुह्य स्वरं स्पृष्ट्वा तृतीयकम् । तस्मात् चतुर्णामारोहणम् । तेषामेव ग्रहवर्जमवरोहे कामोदा। अस्या ग्रहो मध्यमः ॥ -३६५, ३६६ ॥
इति कामोदा (३)
इति भाषाङ्गानि (सु०) मध्येति । मध्यस्थानस्थः षड्जो ग्रहः, अधस्तनेन सह परौ द्वितीयतृतीयौ स्वरावुच्चार्य, चतुर्थ विलम्बेनोच्चार्य, तृतीयद्वितीयौ शीघ्रमुच्चार्य ग्रहे समाप्तौ रामकृतिः ॥ ३६७-३६९- ॥ ।
इति रामकृतिः (१) (सु०) स्थायिनमिति । मध्यम: स्थायी, तस्मादधश्चतुर्थमागत्य,
Scanned by Gitarth Ganga Research Institute