SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः तृतीयं तदधस्थं च विलम्ब्य स्थायिनं स्पृशेत् । अधस्तृतीयतुर्थी च तं तृतीयं पुनः स्वरम् ॥ ३६१ ॥ कृत्वा स्थायिस्वरे न्यासो डोम्बक्री जायते तदा । भूपाली सा जनैरुक्ता स्थाय्यस्या मध्यमो मतः || ३६२ ।। इति डोम्बकी (लोके प्रसिद्धा भूपाली) मन्द्रस्थं पञ्चमं कृत्वा स्थायिनं सह तेन च । आरुह्य षट् स्वरानेषामवरोहे तृतीयकम् ॥ ३६३ ।। विलम्ब्य कम्पितं कृत्वा तुर्ये स्थायिनमाव्रजेत् । क्रमेण यदि जायेत तदा प्रथममञ्जरी || ३६४ ॥ अस्यास्तु मन्द्रगान्धारः स्थायी लक्ष्येषु दृश्यते । इति प्रथमम धैवतं स्थायिनं कृत्वान्दोल्य तस्मादधस्तनम् || ३६५ ॥ ३०७ प्राप्य, तृतीयाधस्तनौ विलम्बेन गीत्वा, स्थायिनं सक्रुदुच्चारयेत् । ततः स्थायिनः सकाशात् अधःस्थितौ तृतीयचतुर्थौ गीत्वा, तृतीयमप्येवं निबिडमुच्चार्य स्थायिनि समाप्तौ डोम्बक्री । सा लोके भूपालीत्युच्यते । अस्या: स्थायी लक्ष्ये मध्यमः ॥ ३६०-३६२ ॥ इति डोम्बकी (१) (लोके प्रसिद्धा भूपाली) (सु० ) मन्द्रेति । मन्द्रपञ्चमः स्थायी, तेन सह षट् स्वरान् आरुह्य, तेषामेवावरोहे तृतीयं विलम्बितमुच्चार्य, तुरीयं च कम्पितं कृत्वा स्थायिप्राप्तौ प्रथममञ्जरी । अस्यास्तु स्थायी मन्द्रगान्धारः ॥ ३६३, ३६४- ॥ इति प्रथममञ्जरी (2) ( सु० ) धैवतमिति । धैवतः स्थायी, तस्मात् पूर्वः पञ्चम आन्दोलितः, Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy