________________
संगीतरनाकरः ग्रहानिःसरणं कृत्वा परौ प्रोच्य द्वितीयकम् । एत्य स्थायिनि चेन्यासो देशीरागस्तदा भवेत् ॥ ३५७ ॥ गान्धारस्तु ग्रहो देश्यां देशीवेदिषु दृश्यते ।
___ इति देशी
स्थायिनं मध्यगान्धारं कृत्वाधस्तुर्यमेत्य च ॥ ३५८ ॥ तस्मादाषष्ठमारुह्य स्वरांस्तानवरुह्य च । ग्रहाधस्तात्तृतीयं च कृत्वा चेन्यस्यते ग्रहे ।। ३५९ ॥ देशाख्या सा तदा लक्ष्ये दृष्टोऽस्या मध्यमो ग्रहः ।
इति देशाख्या
इति रागाङ्गाणि ग्रहान्मध्यस्थितात्पड्जाद् द्वितीयं स्वरमेत्य च ।। ३६० ॥
स्पृष्ट्वा शीघ्रमुच्चार्य, तृतीयं विलम्बितमुच्चार्य, चतुर्थमान्दोलितं गीत्वा, तृतीद्वितीयौ त्वरितमुच्चार्य ग्रहस्वरमृषभं नि:सरणं कृत्वा, निःसृतं स्खलितमिव गीत्वा, परौ द्वितीयतृतीयावुच्चार्य स्थायिनि न्यासे देशीरागः। अस्यास्तु लक्ष्ये गान्धारो ग्रहः ॥ ३५६, ३५७- ॥
इति देशी (८) (सु०) स्थायिनमिति । मध्यस्थानस्थो गान्धारः स्थायी, ततोऽधस्थं चतुर्थ प्राप्य, तस्मात् षष्ठस्वरपर्यन्तमारुह्य, अवरुह्य च ग्रहादधस्थं तृतीयं च स्वरमुच्चार्य, ग्रहस्वरन्यासे देशाख्या । अस्या लक्ष्ये मध्यमो ग्रहः ॥ -३५८, ३५९-॥
इति देशाख्या (९)
इति रागाङ्गानि (सु०) प्रहानिति । मध्यस्थानस्थः षड्जो ग्रहः । ततो द्वितीयं स्वरं
Scanned by Gitarth Ganga Research Institute