SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३०५ षष्ठो वाद्याध्यायः मध्यषड्जाद् ग्रहात्पूर्व स्वरमेत्य तृतीयकम् ॥ ३५१ ।। तुर्य चोक्त्वा द्वितीयादींस्त्रीनारुह्यावरुह्य च । ग्रहन्यासाद्वसन्तः स्यालक्ष्ये त्वस्यर्षभो ग्रहः ॥ ३५२ ।। ___ इति वसन्तः मध्यषड्ज ग्रहं कृत्वा तृतीयं च चतुर्थकम् । उक्त्वा द्वितीयतृतीयौ स्पृष्ट्वा तुर्य च पश्चमम् ॥ ३५३ ।। एतत्क्रमेणावरोहस्त्यक्त्वा स्थायिद्वितीयकम् । स्थायिपूर्वान्तमागत्य ग्रहं तस्मात्तृतीयकम् ।। ३५४ ॥ तुर्य ततस्तृतीयं च प्रोच्यते न्यस्यते ग्रहे । धन्नासी स्यात्तदा दृष्टो लक्ष्ये स्यात्पञ्चमो ग्रहः ॥ ३५५ ॥ इति धन्नासी ऋषभं स्थायिनं कृत्वा परं स्पृष्ट्वा ततः परम् । विलम्ब्य तुर्यमान्दोल्य स्पृष्ट्वा तुर्यादधस्तनौ ॥ ३५६ ॥ (सु०) मध्यषड्जादिति । मध्यस्थानस्थात् षड्जात् स्थायिनोऽवस्थितं स्वरमुच्चार्य, तत: तुर्य चोच्चार्य द्वितीयादीन् त्रीन् स्वरानारोहावरोहाभ्यां गीत्वा ग्रहे षड्जे समाप्तौ वसन्तः । लक्ष्ये त्वस्य ऋषभो ग्रहः ।। -३५१-३५२ ॥ इति वसन्तः (६) (सु०) मध्येति । मध्यस्थानस्थात् षड्जं ग्रहं कृत्वा, तृतीयचतुर्थावुच्चार्य, तृतीयद्वितीयतुरीयपञ्चमान् प्राप्य, द्वितीयवर्ज स्थाय्यधस्तनावधिश्वावरोहेणागत्य, तस्मात् ग्रहतृतीयादीनुच्चार्य ग्रहे समाप्तौ धनाश्री:। अस्या लक्ष्ये पञ्चमो ग्रहः ॥ ३५३-३५५ ॥ इति धनाश्री: (७) (सु०) ऋषभमिति । ऋषभं स्थायिनं कृत्वा, तस्मात् परं द्वितीय Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy