________________
३०४
संगीतरत्नाकरः
स्थायिनं मध्यमृषभं कृत्वा द्वौ तदधस्तनौ || ३४९ ॥ गत्वा स्थायिनमारभ्य त्रीनारुह्यावरुह्य तु । पश्च स्वरान्न्यस्यते चेदृषभे गुर्जरी तदा ।। ३५० ॥ हो गान्धार एवास्या दृश्यते लक्ष्यगोचरे । sa गुर्जरी
उक्तरीत्या द्रष्टव्यः । अत्र प्रकरणे- - स्थायीति ग्रहपर्यायत्वेन मन्तव्यम् । नहि कचिद् महाद्यतिरिक्तस्यांशस्य संभवेऽपि तत्पर्यायत्वेन ; अन्यथात्र स्थायिग्रहयोर्भेदेऽङ्गीक्रियमाणे सति गुर्जर्याः, 'स्थायिनं मध्यमृषभं कृत्वा ' इत्युक्त्वा ' ग्रहो गान्धार एवास्या दृश्यते लक्ष्यगोचरे' इति । तथा देशीसंज्ञके रागे, 'ऋषभं स्थायिनं कृत्वा ' इत्युक्त्वा, ' गान्धारस्तु महो देश्या देशीवेदिषु दृश्यते ' इति । तथा देशाख्यसंज्ञके रागे, 'स्थायिनं मध्यगान्धारं कृत्वा ' इत्युक्त्वा, ' लक्ष्ये दृष्टोऽस्या मध्यमो ग्रहः ' इत्येवमादिषु लक्ष्यलक्षणयोर्विरोधोद्भावनमनुपपन्नं स्यात् । किंच बङ्गालरागे किंनरीवादकाः पञ्चमं स्वरं स्थायिनं कुर्वन्तीत्यादिकाया आक्षेपपरंपरायाः, ' ग्रहो हि यध्यमो रागस्यास्य शास्त्रेषु कीर्तितः' इत्यादिना महता यत्नेन कृता परिहारपरंपरापि निरर्थिका स्यात् । अतोऽत्र ग्रह एव स्थायी स्थायेव ग्रह इति मन्तव्यम् । सुबोधमन्यत् ॥ - ३४७-४००- ॥ इति वराटी (४)
प्रयुज्य स्थायिनि धैवते समाप्तौ वराटी । लोके तु ऋषभस्वर: स्थायी दृश्यत इति ॥ -३४७, ३४८- ॥
:
इति वराटी (४)
(सु० ) गुर्जरीमाह - स्थायिनमिति । मध्यस्थानस्थं ऋषभं स्थायिनं विधाय तदधस्तनौ षड्जनिषादौ प्राप्य ऋषभात् त्रीन् स्वरानारोहावरोहाभ्यां गत्वा महे ऋषभे समाप्तौ गुर्जरी | लक्ष्ये गान्धारो ग्रहः ॥ -३४९, ३५०- ॥
इति गुर्जरी (५)
Scanned by Gitarth Ganga Research Institute