________________
षष्ठो वाद्याध्यायः
धैवतं स्थायिनं कृत्वा तृतीयं च चतुर्थकम् ॥ ३४५ ॥ तस्मात्कृत्वावरोहेण स्थायिपर्यन्तमेत्य च । तृतीयं च ततोऽधस्थं विधाय स्थायिनं व्रजेत् || ३४६ ॥ यदा तदा भैरवः स्याल्लक्ष्ये स्थायी निरिष्यते । इति भैरव:
स्थायिनो धैवतात्पूर्वं स्वरमागत्य तत्परान् ॥ ३४७ ॥ पञ्चानारु तुर्ये च द्वितीयं द्विः प्रयुज्यते । स्थायिनि न्यस्यते रागो वराटी जायते तदा ॥ ३४८ ॥ लक्ष्ये तु दृश्यते स्थायी किंनर्यामृषभस्वरः ।
इति वराटी
३०३
(क०) अथ भैरवमाह - धैवतं स्थायिनमित्यादि । लक्ष्ये स्थायी निरीक्ष्यत इति । लक्षणे धैवत उक्तः । निर्निषाद : स्थायी इष्यत
इत्यन्वयः ॥ - ३४५, ३४६- ॥
इति भैरव: (३)
(सु०) भैरवं लक्षयति - धैवतमिति । धैवतमंशं कृत्वा तस्मात् धैवतात् तृतीयपञ्चमाववरुह्य स्थायिपर्यन्तं समारुह्य स्थायिनस्तृतीयमध्यमावुच्चार्य स्थायिप्राप्तो भैरवः । एतस्य लक्ष्ये निः निषादः स्थायी लक्ष्यते ॥ -३४९, ३४६- ॥ इति भैरव: (३)
(क० ) इतः परं, ' स्थायिनो धैवतात्पूर्वम्' इत्यारभ्य, ' एवं कतिपये रागाः' इत्यन्तेन ग्रन्थसंदर्भेण वराट्यादीनां रागाणां स्वरसंनिवेश
(सु० ) वराट्युत्पत्तिप्रकारमाह — स्थायिन इति । धैवतात् स्थायिनः पूर्वं पञ्चममुच्चार्य, ततः पञ्चस्वरानारोहेत्, अधः स्थायिनौ द्वितीयतुरीयौ द्विः
Scanned by Gitarth Ganga Research Institute